________________
३ सर्गः] नेमिनिर्वाणम् ।
आकर्ण्य गीतमुपजातमदा इवैते ..
धुन्वन्ति संप्रति शिरांसि मुहुः प्रदीपाः ॥ ८॥ व्यक्तागसः परिमलेन कुमुद्वतीनां
यत्पद्मिनीभिरुदितप्रमदं ध्रियन्ते । तं निश्चितं मधुकराः कणितच्छलेन
किंचिद्वशीकरणमन्त्रमुदीरयन्ति ।। ९ ॥ एतत्क्षणं कतिपयस्थिततारतार
मासारधौतगवलद्युतिवायुवम॑ । द्वित्रैस्तुषारपृषतैर्विषयीकृतस्य
शोभां बिभर्ति तरलैनलिनीदलस्य ॥ १०॥ नक्षत्रनाथकरपानविधानलौल्या..... .....
निःशेषरात्रिकृतजागरणाचकोराः । निद्रावशान्मुकुलयन्ति विलोचनानि..
त्वन्नेत्रनिर्जितरुचीनि दिवा हियेव ॥११॥ सूर्योदयस्य समयस्त्वमिहाधुनापि . निद्रासि दासि न ददासि मनः खकृत्ये । इत्यादिकञ्चकिवचस्तव केलिकीराः
प्रज्ञावशादनुवदन्ति मनोज्ञदन्ति ॥ १२ ॥ तेजो जपाकुसुमकान्ति कुमुद्रतीषु ____ विद्योतते निपतितं नवभानवीयम् ।
भर्तुः कलाकुलगृहस्य वियोगदुःखै. निर्दारितादिव हृदो रुधिरप्रवाहः ॥ १३ ॥ भिन्नेन्द्रनीलमणिकान्तिभिरन्तरिक्ष- ..