SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] नेमिनिर्वाणम् । आकर्ण्य गीतमुपजातमदा इवैते .. धुन्वन्ति संप्रति शिरांसि मुहुः प्रदीपाः ॥ ८॥ व्यक्तागसः परिमलेन कुमुद्वतीनां यत्पद्मिनीभिरुदितप्रमदं ध्रियन्ते । तं निश्चितं मधुकराः कणितच्छलेन किंचिद्वशीकरणमन्त्रमुदीरयन्ति ।। ९ ॥ एतत्क्षणं कतिपयस्थिततारतार मासारधौतगवलद्युतिवायुवम॑ । द्वित्रैस्तुषारपृषतैर्विषयीकृतस्य शोभां बिभर्ति तरलैनलिनीदलस्य ॥ १०॥ नक्षत्रनाथकरपानविधानलौल्या..... ..... निःशेषरात्रिकृतजागरणाचकोराः । निद्रावशान्मुकुलयन्ति विलोचनानि.. त्वन्नेत्रनिर्जितरुचीनि दिवा हियेव ॥११॥ सूर्योदयस्य समयस्त्वमिहाधुनापि . निद्रासि दासि न ददासि मनः खकृत्ये । इत्यादिकञ्चकिवचस्तव केलिकीराः प्रज्ञावशादनुवदन्ति मनोज्ञदन्ति ॥ १२ ॥ तेजो जपाकुसुमकान्ति कुमुद्रतीषु ____ विद्योतते निपतितं नवभानवीयम् । भर्तुः कलाकुलगृहस्य वियोगदुःखै. निर्दारितादिव हृदो रुधिरप्रवाहः ॥ १३ ॥ भिन्नेन्द्रनीलमणिकान्तिभिरन्तरिक्ष- ..
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy