SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १८ : कार्व्यमाला | लोलैर्मदार्द्धनपरागपरीतकायैः । तिम्मधुतेरुदयशैलतटं तुरनै राक्रम्यते सरभसैः कमलं च भृङ्गैः ॥ १४ ॥ संध्यागमे तततमोमृगनाभिपकेर्नक्तं च चन्द्ररुचिचन्दनसंचयेन | यच्चर्चितं तदधुना भुवनं नवीनभाखत्करौ घघुसृणैरुपलिप्यते स्म ॥ १५ ॥ मनां तमः प्रसरनिकायमध्याद्वामुद्धरन्सपदि पर्वततुङ्गशृङ्गाम् । प्राप्योदयं नयति सार्थकतां खकीयमह्नां पतिः करसहस्रमसावखिन्नः ॥ १६ ॥ देव्याः श्रियः सकलविभ्रमसद्मपद्म " मास्थाय पिङ्गल परागपटावृताङ्गः । वर्णेन केवलमलिप्रकरः प्रभाते नो कार्ण्यमाकलयति क्रियया च कामम् ॥ १७ ॥ अङ्गेन तुङ्गकुचकुम्भभृता विलोल - वेणीकरेण निनदद्वलयान्दुकेन । गोप्यो वहन्त्य इव काम गजावतारं मध्नन्ति गोरसमसीम गभीरघोषम् ॥ १८ ॥ तापः प्रियस्य विरहे निशि योऽङ्गजन्मा जातस्तमहि कलितेव हिया रथाङ्गी । न्यासीकरोति निभृतं कुलटाङ्गनाना मालम्बनं भवति वा विपदि खजातिः ॥ १९ ॥
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy