________________
१८
: कार्व्यमाला |
लोलैर्मदार्द्धनपरागपरीतकायैः । तिम्मधुतेरुदयशैलतटं तुरनै
राक्रम्यते सरभसैः कमलं च भृङ्गैः ॥ १४ ॥
संध्यागमे तततमोमृगनाभिपकेर्नक्तं च चन्द्ररुचिचन्दनसंचयेन | यच्चर्चितं तदधुना भुवनं नवीनभाखत्करौ घघुसृणैरुपलिप्यते स्म ॥ १५ ॥
मनां तमः प्रसरनिकायमध्याद्वामुद्धरन्सपदि पर्वततुङ्गशृङ्गाम् । प्राप्योदयं नयति सार्थकतां खकीयमह्नां पतिः करसहस्रमसावखिन्नः ॥ १६ ॥ देव्याः श्रियः सकलविभ्रमसद्मपद्म
"
मास्थाय पिङ्गल परागपटावृताङ्गः ।
वर्णेन केवलमलिप्रकरः प्रभाते
नो कार्ण्यमाकलयति क्रियया च कामम् ॥ १७ ॥ अङ्गेन तुङ्गकुचकुम्भभृता विलोल - वेणीकरेण निनदद्वलयान्दुकेन ।
गोप्यो वहन्त्य इव काम गजावतारं
मध्नन्ति गोरसमसीम गभीरघोषम् ॥ १८ ॥
तापः प्रियस्य विरहे निशि योऽङ्गजन्मा जातस्तमहि कलितेव हिया रथाङ्गी । न्यासीकरोति निभृतं कुलटाङ्गनाना
मालम्बनं भवति वा विपदि खजातिः ॥ १९ ॥