SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] नेमिनिर्वाणम् । आस्कन्दतां प्रतिनिशं ककुभः प्रभाते: प्राभाकरेण महसा सहसार्दितानाम् । भूभृगृहासु समशीलविपत्तयेव । संप्रत्युलूकवयसां तमसां च मैत्री ॥ २० ॥ प्राभातिकं तव पुरः सुरसुन्दरीणा माकर्ण्य गीतमचलश्रवणाञ्चलानाम् । आरभ्यते करटभित्तिषु कुञ्जराणां निर्विघ्नमेव मधुपैर्मदपानगोष्ठी ॥ २१ ॥ . एतत्प्रवालदलकोमलकान्तिजाल__ मार्तण्डमण्डलमदोषतयाभिरामम् । .. लोकान्धकारगरलच्छिदुरप्रभाव. माभाति रत्नमिव कालमहोरगस्य ॥ २२ ॥ खैरं विहृत्य सरसीषु सरोरुहाणा- ... ___ माकम्पनेन परितश्छरितो रजोमिः । भृङ्गावलीमुखरशृङ्खलसूच्यमानो मन्दं मरुञ्चरति चित्तभुवः करीव ॥ २३ ॥ सिद्धि प्रयातमतिदीर्घतरैस्तपोभिः ___ संस्मृत्य मन्त्रमिव यं सहसा जनोऽयम् । विश्लिष्यते कलुषदोषविषेण देवः । . स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २४ ॥ छत्रत्रयं विशदशारदचन्द्रचारु यस्य व्यनक्ति भुवनत्रितयप्रभुत्वम् । । सर्वप्रभावविभवप्रभवप्रभावा-..
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy