________________
काव्यमाला।
न्स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २५ ॥ भामण्डलेन वदनेन च भूरिधाम्ना ___ यः शोभमानविमलाकृतिरेति लक्ष्मीम् । आसन्नभानुशशिनः कनकाचलस्य
स श्रीजिनो जनयतात्तव सुप्रभातम् ।। २६॥ यं वीक्ष्य विस्मयविधायिवपुःखरूप___ मत्यन्तविस्मृतशिलीमुखमोक्षकर्मा ।। कामः कराकलितकार्मुक एव तस्थौ
स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २७ ॥ . यत्पादपद्मयुगसंततसंनिधाना
दासीदशोक इति कीर्तिपदं द्रुमोऽपि । आलम्बनं निरयमापततां जनानां
स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २८ ॥ भाखप्रदीपनिभधर्मकथोपदेश__ दीपेन यस्य दलिते तमसां प्रसङ्गे । पश्यन्ति मुक्तिपदवीं मुनयः सुखेन
स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २९ ॥ यः कूपदेशपतितं जनमन्धमेव
मभ्युद्धरत्यलघुवाग्गुणवैभवेन । निष्कारणैककरुणाकरतां दधानः
स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ ३०॥ सा कौमुदीव शशिनः परिपाण्डुबिम्ब
महाय कैरक्मनं(?) स्मितचारुतेव ।