Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 232
________________ Shri Mahavir Jain Aradhana Kendra २२० www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir भावः । सतीति । रागमूलप्रत्यक्षादिनेवोक्तवाक्येनापि सा सम्भवतीति भावः । यद्यपि स्तुत्यर्थकत्वमपि सम्भवति, तथापि तस्य पूर्वमेवोचत्वादत्र विधानार्थानुवादत्वपक्षस्य परेणाशङ्कितत्वात्तदेवोक्तम् । ननु, सत्यत्वासत्यत्वयोरेकत्रासम्भवेऽपि क्वचिद्दृश्ये सत्यत्वं क्वचिच्चासत्यत्वं बोध्यताम् । तत्राह — षोडशीत्यादि । अलौकिकस्य प्रत्यक्षाद्यविषयस्य । आपश्च न प्रमिणन्ति व्यापनशीला देवा अपि यथार्थतया जानन्तीति तदन्यपरत्वस्य तस्योक्तवाक्यस्य स्तुतिपरताया उक्तत्वात् । न प्रमिणन्तीति योजनया न हिंसन्तीत्यर्थधीद्वारा स्तुतिपरत्वस्योक्तत्वादित्यर्थः । अनुवादलिङ्गति । यच्छब्दरूपलिङ्गेत्यर्थः । कल्पनादिति । यच्छन्दादिलिङ्गरहिते विश्वसत्वानुवादे यच्छन्दादिरूपलिङ्गस्य कल्पनादित्यर्थः । सर्वशाखा प्रत्ययन्यायेन यच्छब्दादिकमुपसंह्रियते । वस्तुतस्तु, 'न तौ पशौ करोतीत्यादेः निषेधार्थानुवादत्वेsपि यच्छब्दाद्यभावात् तादृशानुवादत्वं यच्छब्दादिकं विनापि कल्प्यते इति भावः । अनुसारेण बलवत्त्वानुरोधेन । एकवाक्यताम् उक्तवाक्यैकवाक्यताम् । मैत्रेयीब्राह्मणे -' इदं सर्वं यदयमात्मे' त्युक्त्वा 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्ये' दित्याद्युक्तम् । तत्रैवकारेणात्मान्यसर्व दृश्यनिषेधात् केन कमित्याक्षेपार्थक किंशब्देनापि तथा निषेधात्तदर्थमिदं सर्वमित्यादिवाक्यं प्रतियोगिप्रसञ्जकतयोपयुज्यत इति भावः । ' इदं सर्वं यदय' मित्यादौ बाधायां सामानाधिकरण्यस्वीकारे 'इदं सर्वं य' दित्यस्यैव दृश्याभाववद्बोधकत्वेन निषेधरूपत्वान्नानुवादत्वमिति । इत्यादीनीत्युक्तः स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो हायं पुरुष' इत्यादौ पश्यत्याद्यन्तवाक्यानां निषेधार्थानुवादत्वं लभ्यते । निष्प्रपञ्चवाक्यस्य बलवत्त्वे प्रयोजकमाह - निष्प्रपञ्श्चतायाः पुरुषार्थत्वदर्शनादिति । जाग्रत्स्वप्नसुखापेक्षया जाग्रत्स्वप्नरूपप्रपञ्चशून्यसौषुप्तसुखस्य पुरुषैरुत्कृष्टत्वेन व्यवहारदर्शनादित्यर्थः । सुषुप्तौ भासमानं सुखं यद्यपि जाग्रत्स्यनयोरपि भाति 'मा भूवमिति न किं तु भूयास 'मित्यस्या अन्येच्छानधीनेच्छायास्तयोरात्मन्युत्पत्तेः सुखभिन्ने तस्या असम्भवात्, तथापि 'कष्टं कर्मे 'ति लोकानुभवात् जाग्रत्स्वप्नयोः स्थूलसूक्ष्मदेहक्रियाभिर्दुः खोत्पत्तेर्विषयसुखानामपि तादृशदुःखमिश्रितत्वात् दुःखान्तरहेतुत्वाच्च जाग्रदादिसुखापेक्षया सुषुप्तिसुखमुत्कृष्टम् । लोकेत्वविवेकात् तथा न ज्ञायते । तदुक्तमाचार्यैः कष्टं कर्मेत्यनुभवो लोकानामिति । उक्तं च वार्त्तिकामृतेन तदस्ति सुखं लोके यन्न दुःखकरं भवेत् । विषयप्राप्तिवि - च्छेदक्षयेष्वसुखकृद्यत इति । तथा च जाग्रदादिसुखात् सुषुप्तिसुखमिव सुखमात्रात् निष्प्रपञ्चं मुक्तिसुखसुत्कृष्टम् । अतस्तस्य साक्षात्कारप्रयोजके निष्प्रपञ्चवाक्यार्थज्ञाने परमप्रयोजनवत्त्वात् अज्ञातविषयकत्वाच्च निष्प्रपञ्चश्रुतस्तात्पर्यस्याव 1 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336