Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र० दे अद्वैत श्रुतेर्बाधोद्धारः] लघुचन्द्रिका २९७ निश्चयाप्रतिवध्यत्वात् शाब्दधीव्यावृत्तेन जातिविशेषेणैव प्रतिबध्यत्वम् । एवं योग्यताज्ञानस्य शाव्दधीहेतुत्वेऽपि न मानम् । इतरकारणकलापे सति तद्विलम्वेन तदविलम्बादिति भावः । श्रुत्यैवेत्येवकारार्थो विवक्षितः । स च ज्ञानमिथ्यात्वस्य विषयमिथ्यात्वसाधकत्वव्यवच्छेदः । श्रुतेर्बोधकत्वं तु नात्र विवक्षितम् । तेन एतेनेत्यनेन न पौनरुक्त्यम् । मिथ्यात्वादिति । विषयमिथ्यात्वमिति शेषः । विचारे इति । प्रकृतविचारे चेति शेषः । दर्शितत्वादिति । न चाद्वैतज्ञानवता द्वैतवादिनं प्रति श्रुतिप्राबल्योपन्यासे तदीयव्यवहारव्याघात इति वाच्यम् । अद्वैतज्ञानेन प्रपञ्चस्य बाधितत्वेऽपि भुज्यमानकर्मणा प्रतिबन्धेन भोगशेषानुकूलप्रतिभासानिवृत्त्या व्यवहारसम्भवात् । तदुक्तं खण्डने-नानात्वमवलम्ब्यापि वदत्यद्वैतवादिनि । असिद्धभेदात् व्याघातः पतेदापादकात् कुत' इति । असिद्धभेदात् आसेद्धो बाधितः आपाद्यादितो भेदो यत्र तस्मात् । आपादकात् यदि त्वं अद्वैतज्ञानवान् , तदा व्यवहारवान् न स्यादित्यस्मात् । बाध्यबाधकयोः आपस्सर्वमिति ज्ञानप्टथिव्यादयो नाप इति ज्ञानयोः । उपपत्तेरिति । जले सवस्येति शेषः । बाधकाभेदः बाधके बाध्याभेदः । बाध्यबाधकैक्येति । सर्वाद्वैतेत्यर्थः । निर्वाध सदिति । बाधकत्वाभिमतमद्वैतज्ञानं तद्भिन्नत्वेन निश्चितं अ. तस्तेन भेदज्ञानं बाध्यतया न निश्चेतुं शक्यत इति भावः । हेत्वभावादिति । अद्वैतज्ञानं साक्षिणा तद्भिन्नत्वेन न गृह्यते । स्वस्मिन् स्वाभेदविषयके च शाब्दबोधे विपरीतधीन विरोधिनीत्युक्तमिति भावः । पूर्वोक्तेति । भेदज्ञानस्य स्वस्मादपि भेदसिध्यापत्त्या बाधकत्वाभावापत्तिः । स्वातिरिक्तसर्वभेदविषयकत्वे वाच्ये अद्वैतवादिनं प्रत्यसिद्धिरित्यादीत्यर्थः । 'आपो वे' त्यादिनारायणीयोपनिषद्वाक्यस्य स्तुतिपरत्वेनाभेदपरत्वाभावात् भेदप्रत्यक्षादुर्बलत्वं सर्वं न सर्वमित्यादिवाक्यस्यानाप्तोक्तत्वेन घटो न घट इत्यादिवदपार्थकत्वेन च तथात्वमित्यपि बोध्यम् । ननु, 'इदं वाग्रे नैव किञ्चन आसी'दिति श्रुतिः 'विमतं असत् ज्ञेयत्वा'दित्यनुमानञ्च खबाधकम्य सत्यादिवाक्यस्यासत्त्वं गृहीत्वा सर्वासत्त्वं बोधयेत्तत्राह-सर्वासत्त्वमिति । प्रत्यक्षादिगृह्यमाणस्यालीकत्वं वक्तुमशक्यम् । अतो मिथ्यात्वरूपमसत्वं वाच्यम् । तच्चेष्टम् । वस्तुतस्तूक्तवाक्यं व्याकृतप्रपञ्चनिषेधमग्रकाले बोधयतीति भावः । श्रुत्या 'एकमेवाद्वितीय'मित्यादिश्रुत्या । मिथ्यात्वमिति । अद्वितीय. पदस्य सद्वितीयत्वेन ज्ञाते ब्रह्मणि द्वितीयशून्याभेदबोधनादिति शेषः । ब्रह्माभिन्नत्वमिति । अद्वितीयपदस्य द्वितीयत्वरूपविशेषणनिषेधपरत्वेनेति शेषः । ब्रह्मद्वितीयत्वस्य ब्रह्मभेदव्यापकतया द्वितीयत्वनिषेधात् भेदनिषेधस्यार्थिकतया For Private and Personal Use Only

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336