Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 331
________________ Shri Mahavir Jain Aradhana Kendra प्र०दे अज्ञानवादः ] www.kobatirth.org लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३१९: विशेष्ये विशेषणमित्यादिरीत्या ज्ञानोपधायकत्वसंभवेनेत्यर्थः । न्यायेनेति । सर्वेषां विशेषणतावच्छेदकानामिति शेषः । अथवा । इह चेति । विशेषणतावच्छेदकांश धर्मान्तरं यत्र धर्मितावच्छेदकतया न भाति, तत्र स्थले चेत्यर्थः । विशिष्टस्य वैशिष्ट्यं विशेष्ये विशेषणं तत्रापि च विशेषणान्तरमित्येतयोरिति शेषः । घटवदित्यादिबुद्धेरुक्तद्वैविध्ये सत्यपि तस्यां विशेषणतावच्छेदकप्रकारकनिश्वयों न हेतुः । किं तु 'रक्तदण्डवदि' त्यादिविशिष्टवैशिष्टयबुद्धौ ' दण्डो रक्तो न वे 'त्यादि - संशये तदनुत्पत्तेः । तथा च ज्ञानविरोधित्वसविषयकत्वविशिष्टाज्ञानवैशिष्ट्यबुद्धावपि सहेतुः । न हि ज्ञानविरोधित्वसविषयकत्वयोरेकमपरत्र धर्मितावच्छेदकतया भातीति नियमः । न वा धर्मान्तरं तथेत्यपि नियमः । मानाभावादिति भावः । विशेष्ये इत्यादि । अज्ञानस्वरूपे उक्तविशेषणयोरेकत्र द्वयमिति रीत्या विशेषणत्वं तत्र ज्ञानादेर्विशेषणत्वमित्यर्थः । विशिष्टेति । विरोधित्वादिविशिष्टेत्यर्थः । एवं च विशिष्टवैशिष्ट्येत्यपि सार्थकम् । अन्यथा न्यायेन ज्ञानसम्भवादित्येवोच्येत । ननु ससम्बन्धिकस्य प्रत्यक्षं विशिष्टस्य वैशिष्ट्यमिति रीत्यैव । अन्यथा रक्तदण्डो नास्तीत्यभावप्रत्यक्षेऽप्युक्तरीतिनियमो न स्यात् । उक्तं च ‘प्रतियोगिविशेषिताभावभानं तु विशिष्टवैशिष्ट्यबोधमर्यादां नातिशेत' इति तत्राह - अन्यथेति । अज्ञानप्रत्यक्षस्योत्तरीतिनियमे इत्यर्थः । विषयस्य विशेष्यविशेषणयोः । स्वातन्त्र्येण विशिष्टस्य वैशिष्ट्यमिति रीत्या । ग्रहे रजतेज्ञानवानितिग्रहे । भ्रमावच्छेदकतया भ्रमांशे विशेषणतया । तद्ब्रहणं विशेष्यविशेषणयोग्रहणम् । तथा चेति । ससम्बन्धिकस्य प्रत्यक्षे उत्तरीत्यनियमे चेत्यर्थः । प्रागित्यादि । अज्ञानप्रत्यक्षोत्पत्तेः पूर्वमज्ञाने विशेषणतयावच्छेदकज्ञानादिग्रहनियम इत्यर्थः । न च इदंरजतयोविंशेषणतया मानेऽपि तद्विशेषणतयोरवच्छेद्यावच्छेदकभावाभानेन तादृशं भ्रमज्ञत्वं समूहालम्बनज्ञानज्ञत्वसाधारणमिति वाच्यम् । विशिष्टस्य वैशिष्ट्यमिति रीतावपि तदभानस्य तुल्यत्वात् । अथ रजतेदंज्ञानवा' निति ज्ञाने रजतमिदं विशिष्ट ज्ञाने विशेषणम् । न त्विदंमात्रे । तथा च ज्ञानस्येदंविषयताविशिष्टत्वेन विशेष्यत्वाद्विशेष्यतावच्छेद के दंविषयतावच्छिन्नविषयतासम्बन्धेन रजतस्य ज्ञाने विशेषणत्वमिति मन्यसे, तर्हि रजतस्येदमंशे विशेषणत्वं विनापि तत् बोध्यम् । ननु, ईश्वरस्य भ्रमग्रहणे तथा स्वीकारेऽपि ' न जानामी' ति प्रत्यक्षे न तथा स्वीकर्त्तुं शक्यते । आकारविशेषविरोधात्तत्राह -- ग्रहणसामग्रीतुल्यत्वमिति । ग्रहणस्य सामग्रीसमग्रता तत्तद्विषयावगाहित्वरूपा तुल्या । यथा विशिष्टस्य वैशिष्ट्यमित्यत्र तथा विशेष्ये विशेषणं तत्रापि च विशेषणान्तरमित्यत्र । 1 -

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336