Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे अज्ञानवादः
लघुचन्द्रिका ।
३२१
घटत्वावच्छिन्न प्रतियोगिताकत्वेन भानं न स्यात् । न च तत्र सामान्याभाव एव भाति । तस्य कालानवच्छिन्नतयैव सर्वत्र भानात् । तत्राह-कादाचित्केति । कालावच्छिन्नतया भासमानेत्यर्थः । सामान्येति । सामान्यावच्छिन्नप्रतियोगिताकेन्यर्थः । सामान्याभावानभ्युपगमे विशेषाभावकूटे उक्तप्रतियोगिताकत्वमुक्तधीविषयः । सामान्याभावस्वीकारेऽपि कदाचित् संसृष्टव्यक्तित्वावच्छिन्नप्रतियोगिताको विशेषाभाव एव तथा । अथवा कादाचित्काभावस्य कदाचिदेव विद्यमानस्वरूपकाभावस्य । ध्वंसत्वेन प्रागभावत्वेन वा अभिमतस्यायोगादित्यन्तं तत्र हेतुः । तत्रापि हेतुरभावादित्यन्तम् । चकारोऽप्यर्थकः । तथा च विशेषात्यन्ताभावस्येव कादाचित्काभावम्यापि प्रतियोगिता न सामान्यावच्छिन्नेत्यर्थः । विशेषेति। विशेषाभावेत्यर्थः। दशायामिति । विशेषाभावकूटनिश्चये ऽपीति शेषः । प्रत्येकं सम्बन्धा इति । प्रत्येकावृत्तेम्समुदायवृत्तित्वासम्भवात् समवायवत् बहुप्वेकस्य सम्बन्धत्वासम्भवाच्च नानापर्याप्तिसम्बन्धा वाच्या इत्यर्थः । समवायस्य प्रत्येकानुयोगिकत्वेन नानात्वम् । पर्याप्तेस्तु तदभावेनैकत्वमित्याशयेन त्वये सामान्याभावं खण्डयिष्यति । अवच्छे. देन विशिष्टत्वेन ! विशेषणीया इति । अन्यथा एथिव्यां सर्वं नीलरूपमिति वत् एथिव्यां रूपं नास्तीत्यपि स्यादिति शेषः । इदन्त्वादिनाभावस्य प्रत्यक्षं वारयितुमाह-अभावत्वप्रकारकेति । ज्ञाने प्रत्यक्षे । हेतुत्वादिति । अन्यथा नेत्याकारकप्रत्यक्षापत्तेरिति शेषः । साध्यत्वात् क्षेमसाधारणसाध्यत्वात् । सामयिकेति। समयविशेषावच्छिन्नेत्यर्थः । ननु, पाकजानां रूपरसादीनां मिथो भेदः कारणभेदं विनानुपपन्नः प्रागभावं कारणत्वेन कल्पयति । पाकादिकारणानामभेदात् । तत्राह -पाकजेति । न तु प्रागभावेति । तयोः क्लप्तत्वादित्यादिः । यद्यपि रूपाद्यलन्ताभावस्य रूपादौ कारणत्वं सम्भवति, तथापि रूपव्यक्तीनामेकेन तेजस्संयो. मादिना जातानां मिथो भेदाय तत्तत्ध्वंसहेतुत्वमुक्तम् । भेदं भेदसिद्धिम् । भेदेति । भेदसिद्धीत्यर्थः । वैलक्षण्यति । प्रतियोग्यधिकरणानधिकरणवृत्तित्वेत्यर्थः । त्रय मिति । तत्तदधिकरणसम्बन्धसमुदायत्वेन सम्बन्धानामेकत्वम् । रोचत इति । यद्यपि समवायः प्रत्यधिकरणं विशिष्टप्रमानियामकत्वेन प्रत्यधिकरणव्यक्तिभिन्नः, तथापि पर्याप्तिः प्रत्येकाधिकरणव्यक्तौ विशिष्टबुद्ध्यनियामकत्वेन न प्रत्यधिकरणं भिन्ना । तथा च प्रत्येकानतिरिक्त समुदायानुयोगिकपर्याप्तेः प्रत्येकानुयोगिकत्वेऽपि समुदितत्वावच्छिन्नाया एकस्या एव तस्याः स्वीकारात् सामान्यावच्छिन्नप्रतियोगिताकत्वस्य सर्वविशेषाभावेप्वकैव पर्याप्तिः । सामान्याभावस्य तु तत्तदधिकरणेषु विशेषणताः तदतिरिक्ताः कल्प्याः । स्वरूपसम्बन्धस्य निरस्तत्वा
४१
For Private and Personal Use Only

Page Navigation
1 ... 331 332 333 334 335 336