Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 334
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ अद्वैतमञ्जरी। दित्यन्त्यः पक्ष एव रोचत इति भावः । यत्तूक्तप्रतियोगितानिरूपकत्वमव्यासज्यवृ. त्तिस्वभावतत्तदभावस्वरूपत्वात् न व्यासज्यवृत्तिकं सम्भवतीत्यनुमानमणिदीधितावुक्तम् । तन्न युक्तम् । बौद्धाधिकारटीकायां विषयतायाः ज्ञानस्वरूपत्वं निषिध्य एवं प्रतियोगित्वानुयोगित्वादिकमप्यतिरिक्तम्। न प्रतियोग्यादिस्वरूपमित्यस्य महता प्रबन्धेन स्थापितत्वात्। अनुयोगिताविशेषरूपस्योक्तनिरूपकत्वस्याभाववरूपत्वाभावात्। यदपि एथिव्यां यावन्ति नीलरूपाणीति वत् पृथिव्यां रूपं नास्तीति वाक्यमपि योग्य स्यादिति, तदपि न । यावन्नीलत्वावच्छिन्नाधेयताया पृथिव्यनिरूपितत्वेन नीलत्वावच्छिन्नाधेयताया एव पृथिवीनिरूपितत्वेन यावन्नीलेषु बोधात् पृथिव्यां न रूपमित्यत्रापि रूपत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नाधेयताया एव बोधस्य व्युत्पत्तिसिद्धत्वात् । सिद्धत्वादिति । तथा च सामान्यरूपेणाभावे समयविशेषावच्छिन्नवृत्तिकेन विवादो निरस्तः । स्वसमभिव्याहतपदार्थतावच्छेदकरूपेणात्यन्ताभावबोधकत्वस्य व्युत्पत्तिसिद्धत्वात् । अन्यथा निर्घटं सघटमित्याद्यापत्तेः । एवं च सामान्यरूपेण विशेषस्य प्रागभावादिरिह कपाले घटो नास्तीत्यादौ समवायावच्छिन्नतया भातीति परोक्तमपास्तमिति भावः । ग्रहे निरूपकत्वग्रहे । अनभ्युपगमादिति । उक्तप्रतियोगिताकत्वान्यव्यासज्यवृत्तिधर्मप्रत्यक्षत्वेन श. क्तिविशेषवत्त्वेन वा कार्यता । अन्यथा अनन्तसामान्याभावकल्पने महागौरवं म्यादिति भावः । संसर्गस्संयोगादिः । तद्धटत्वेति । तद्व्यक्तित्वेत्यर्थः । तत्परिचायकमाह-पूर्वापरकालीनेति । साधारणस्येति । विशेषणस्य न्यूनाधिकवृत्ते वच्छेदकत्वम् । संसर्गस्य तु तादृशस्यापि तदिति वैलक्षण्यात्तदवच्छेदकत्वयोर्भेद इति भावः । तादात्म्येति । तादात्म्यं भेदस्य प्रतियोगितायां नावच्छेदकम् । तत्तव्यक्तित्वं न ध्वंसप्रागभावयोः । मानाभावादिति भावः । सा. मानाधिकरण्येति । यत्र यत्रावच्छेदकभेदः, तत्र तत्राभावभेद इत्युक्तावभावे व्यभिचाराद्यत्रयत्रैकावच्छेदकभिन्नापरावच्छेदकत्वं, तत्र तत्रैकाभावभिन्नापराभावत्वमिति वाच्यम् । तथा च साध्यहेत्वोः असामानाधिकरण्यम् । युगपदित्यादि । युगपदुत्पन्नानामेकः प्रागभावः । युगपद्विनष्टानां चैको नाशः । मूलाग्रावच्छिन्नयोस्तु नाशयोः प्रागभावयोर्वा नैक्यम् । भिन्नावच्छेदेन प्रत्ययादित्यर्थः । अभावांशे प्रतीतेरनुगताकारत्वायेदम् । तदनपेक्षायां तु तत्तदधिकरणेष्वेवाभावत्वं पूर्वोक्तं युक्तम् । उपपद्यते चेदिति । रूपत्वावच्छिन्नप्रतियोगिताकत्वस्यावच्छेदकत्वं वाय्वादाववश्यं कल्प्यम् । तथा च किमपराद्धं वाय्वादिमात्रवृत्त्यभावेन । सम्बन्धादिकल्पनमपि तुल्यमिति भावः । सि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 332 333 334 335 336