Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३२०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
-
प्रकृतेऽपि यथा रजतेदं जानामीति प्रत्यक्षे, तथा न जानामीत्यत्र समाना तथा च विषयताभेदेऽप्याकारस्य तुल्यत्वान्नाकारविरोध इति भावः । यथाश्रुतं तु सामग्रोपदमसङ्गतम् । ईशप्रत्यक्षे कारणकूटरूपसामग्यप्रसिद्धेः । अत्र विशेष्ये विशेषणमित्यादिरीत्या न जानामीति प्रत्यक्षस्य ज्ञानाभावप्रकारकत्वासम्भवः । अभावप्रत्यक्षे विशिष्टस्य वैशिष्ट्यमिति विषयतायास्सर्वसम्मतत्वादिति ध्येयम् । रजतेदं जानामीत्याकारस्य प्रत्यक्षस्येशे स्वीकारेऽपि न तत्र भ्रान्तताव्यवहारस्यापत्तिः । उक्तव्यवहारे विशेषादर्शनकालीनस्यैव बाधितविषयकज्ञानवत्त्वस्य विषयत्वात् । अन्यथा तार्किकादिमते दर्पणे मुखं नास्तीति विशेषदर्शनवतो दर्पणे मुखदर्शिनोऽपि भ्रान्तत्वेन व्यवहार्यता स्यात् । परं तु ईशप्रत्यक्षस्य तादृशाकारत्वे मानाभावात्ताकिकैस्तत् न स्वीक्रियते इति ज्ञापनाय तार्किकाणामित्युक्तम् । न्यायशूराणामिति तदर्थः । विशेषतस्तदभावेति । ज्ञानत्वावच्छिन्नतया ज्ञानविशेषीयतया च भासमाना प्रतियोगिता यस्य तादृशाभावेत्यर्थः । विशेषतः तद्व्यक्तित्वेन । प्रतियो गितावच्छेदकेति । तत्सद्व्यक्तित्वरूपेत्यादिः । प्रतियोगीति । प्रागभावप्रतियोगीत्यर्थः । तदेवेति । अभावज्ञाने कारणमित्यनुषज्यते । तत्प्रागभावेति । प्रमाप्रागभावेत्यर्थः । घटवतीति । सामान्यधर्मस्यैव प्रतियोगितावच्छेदकतया भाने प्रतियोग्यंशेऽपि प्रकारत्वस्यावश्यकत्वादित्यादिः । अवच्छेदेऽपीत्यपिकारेण इदं सूचितम् – गगनादाववर्तमानव्याप्तेः प्रमेयत्वं नावच्छेदकम् । अतिप्रसक्तत्वात् वृत्तिमत्त्वावच्छेदेन व्याप्तिधीसम्भवेन व्यर्थविशेषणत्वस्याप्यसम्भवात् । वृत्तिमत्प्रमेयत्वावच्छिन्नत्वस्य व्याप्तौ सत्त्वे तग्रहणस्यादोषत्वात् । असत्त्वे तद्रहणस्य भ्रमत्वादिति । कादाचित्काभावत्वमिति । कालत्वाव्यापकाभाववत्त्वमित्यर्थः । अखण्डोपाधिरूपं वा । न तु प्रागभावप्रतियोग्यभावत्वमिति शेषः । प्रागभावादिघटितः कार्यप्रागभाववत्कालत्वरूपेण कार्यप्राक्कालस्वेन घटितः । आत्माश्रयादिति । प्रतियोगिजनकत्वेन प्रागभावः कल्प्यते । उक्तजनकत्वं च प्रागभावकल्पनात् पूर्वं ज्ञातुमशक्यम् । प्रागभावघटितत्वात् । अतः प्रागभावज्ञप्तिः स्वाधीनेति ज्ञप्तावात्माश्रयः । अन्यथा प्रतियोगिमत्यत्यन्ताभावास्वीकारे । न स्यादिति । प्रागभावस्यैव नीरूप इति धीविषयत्वे रूपवत्यपि भा - विरूपप्रागभावमादाय सा स्यादिति शेषः । यद्यपि सामान्याभावोऽप्युक्तधीविवयस्सम्भवति । तथापि विशेषाभावकूटोक्तिः अथेत्यादिग्रन्थावतारायेति बोध्यम् । सावन्मात्रेति । उक्तप्रतियोगिताकत्वतीमात्रेत्यर्थः । ननु विशेषाभावप्रतियोगितापि सामान्यरूपण वाच्या । अन्यथा इदानीं कपाले घटो नास्तीति प्रतीतौ तद्घटाभावस्य
For Private and Personal Use Only

Page Navigation
1 ... 330 331 332 333 334 335 336