Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
अद्वतमञ्जरी ।
ज्ञानग्रहे अज्ञानं विषयीकर्तुम् । वेद्यवाभावादिति । सविषयकत्वविशिष्टस्य सर्वस्यानावृतसाक्षिसम्बन्धवत्तया क्लप्तत्वेन ज्ञानादिविशेषणत्वेनाभावस्य साक्षिवेद्यत्वेऽपि तदविशेषणत्वरूपेण तदभावादित्यर्थः । ननु, ज्ञाने विशेषणतया तद्विषयस्यैव विशेष्यतया तदभावोऽपि साक्षिवेद्योऽस्तु । तत्राह--यद्यपीति। अनुपलब्धत्वादिति । घटादौ ज्ञानाभावस्यानुपलब्धिरूपप्रमाणेनैव धीः। न हि ज्ञानाभावस्याहमर्थभिन्नेऽपि साक्षिवेद्यता सम्भवति । यादृशस्य हि तार्किकादिमते मानसं प्रत्यक्ष, तादृशस्यैव त्वया सा वाच्या । अन्यथा अनुभवविरोधात् । तथा च ज्ञानाभावस्यानुपलब्धत्वेन क्लप्तत्वादात्मन्यपि तस्य तथात्वमिति भावः । ननु साक्षिणा ज्ञानं गृह्यत इति क्लप्तम् । तेनैव ज्ञानाधिकरणे तदभावोऽपि गृह्यताम् । तथा च नोक्तदोषः । तत्राह-उत्पन्नमिति । विद्यमानमित्यर्थः । अभावोऽपीति । साक्षात् साक्षिवेद्य इति अनुषज्यते । तथा च ज्ञानतदभावयोरेकसत्त्वे अपरासत्त्वादविद्यमाने चानावृतसाक्षितादात्म्यस्याभावान्न तयोयुगपत्साक्षिवेद्यतेति भावः । अनुत्पन्नम् अविद्यमानम् । विषयस्येव ज्ञानस्याप्यविद्यमानस्याज्ञानविशेषणतया भानम् । प्रमिजोमीत्यादौ प्रमाविशेषणतया प्रमात्वादेरिव न जानामीत्यादावज्ञानविशेणतया प्र. माविरोधस्यापि भानसम्भवात् । अविद्यमानत्वं च प्रमायामिव प्रमात्वघटकाज्ञातत्वे. ऽपि सममिति भावः । 'अहं प्रमावा निति भ्रमकाले अहं 'प्रमाभाववा'निति बुद्धे. रनुत्पादात तस्यां प्रमोपलब्ध्यभावस्य हेतुत्वेन क्लप्ततया अनुपलब्धिप्रमाणवेद्यस्य प्रमाभावस्य साक्षिवेद्यत्वे मानाभावः । न च प्रतियोगिज्ञानं विना नानुपलब्ध्याभावज्ञानम् । तदपेक्षणे च व्याघात उक्त इत्यगत्या प्रमाभावस्य साक्षियाह्यतेति वाच्यम् । तावतापि व्याघातानुद्धारात् । वृत्त्यवच्छिन्नस्यैव साक्षित्वेन तस्यापि तज्जन्यत्वेन प्रतियोगिज्ञानापेक्षत्वात् । न हि 'न जानामी'ति प्रत्यक्षकाले प्रमारूपप्रतियोगिस्मृतिनियमः । तथा सति त्वन्मतेऽनन्तस्मृतिव्यक्तिकल्पने गौरवादित्यपि बोध्यम् । अज्ञानज्ञानं अज्ञानाकाराविद्यावृत्त्यवच्छिन्नचिद्रूपम् । अविद्यो. पहितचिद्रूपस्यैव साक्षित्वे तु नायं दोषः । जन्यविशिष्टबुद्धावेव विशेषणधीहेतुत्वात् । सिद्धत्वादिति । 'दण्डो रक्तो न वेति संशयोत्तरं 'विशेष्ये विशेषणं तत्रापि च विशेषणान्तर मिति.रीत्या जायमाने 'रक्तदण्डवानि ति ज्ञाने विशिष्टवैशिष्ट्यविषयताया अपि वक्तुं शक्यत्वात् विशेष्यान्वायना यदन्वितं तस्यैव धीः तद्विशिष्टवैशिष्ट्यधीरित्यस्यापि वक्तुं शक्यत्वाच्चेति भावः । उक्तहेतुत्वं स्वीकृत्याप्याहइह चेनि । विशेषणवावच्छेदकप्रकारकनिश्चयासम्भवस्थले चेत्यर्थः । सामग्रीतुल्पत्वेनेति । यावन्ति कारणानि विशिष्टस्य वैशिष्ठयबुद्धौ क्लुप्तानि तावतां
For Private and Personal Use Only

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336