Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 329
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra प्र० दे अज्ञानवादः लघुचन्द्रिका । स्तीत्यस्य तु तव्यक्तिमात्रस्याभावो विषयस्सम्भवतीति न तबलात् तादृशाभावसिद्धिः। अत एव घटत्वेन तद्धटो नास्तीति ज्ञानेऽपि तद्धटत्वावच्छिन्नाभाव एव विषय इति भावः । विषयाज्ञानं विषयविशेषितमज्ञानम् । ज्ञानविशेषेति । विषयविशेषितज्ञानविशेषेत्यर्थः । ज्ञातेऽपीति । विषय इति शेषः । विषयज्ञानं विना विषयविशिष्टज्ञानस्य ज्ञानासम्भवादिति भावः । द्वयसापेक्षेति । अज्ञानं भावरूपं स्वाश्रयविषयकमित्युक्त्वा अज्ञानं न स्वविषयाश्रितम् । अस्य पुरुषम्यात्र विषये अज्ञानमिति विषयाश्रयभेदानुभवादित्याशंक्य अस्य पुरुषस्येति नाज्ञानाश्रयभानम् । किं तु अस्यात्र यत् ज्ञानं, तद्विरोधित्वेनाज्ञानभानमित्याशयेनोक्तम् । अज्ञा. नमिति । द्वयसापेक्षेत्यादि । आश्रयविषयरूपद्वयसापेक्षं यत् ज्ञानं, तत्पर्युदासेनाज्ञानमित्यभिधानादित्यर्थः । तवापीति । प्रमाणवृत्त्यभावकाले 'न जानामी'ति धीः वाच्या । अन्यथा अविद्यावृत्तिकालेऽपि सा न स्यात् । तथा च व्याघातः । उक्तधियः प्रमाणवृत्तिसामान्यविरोधित्वेनाज्ञानविषयकत्वेन तदुत्पत्ते. रुक्तविगेधित्वप्रकारकप्रमाणवृत्तिसापेक्षत्वात् । न युक्तविरोधित्वमपि साक्षिमात्रभास्यम् । येनोक्तवृत्तिनैरपेक्ष्येण साक्षिमात्रेण तद्भानमुच्येत । किं तु विषयविशेषिताज्ञानमात्रं साक्षिभास्यम् । न च उक्तविरोधित्वस्मृत्यादिनैव 'न जानामी' ति धीसम्भवान्न व्याघात इति वाच्यम् । क्वचित्तत्सम्भवेऽपि सर्वत्र तदमावेन प्रमाणवृत्तिसापेक्षतावश्यकत्वात् । यदि च ज्ञानविरोधित्वं साक्षिमात्रवेद्यमज्ञाने स्वीक्रियते, तदा तत्प्रमाणावेद्यत्वेन व्यावहारिकं न स्यात् । अज्ञानवरूपवत् तदिदमुक्तम् । अन्यथा अज्ञानस्य ज्ञानविरोधित्वमप्रामाणिकं स्यादिति भा. वः । वस्तुतोऽत्रास्याज्ञानमिति प्रत्यये पुरुषविशेषनिरूपितं विषयविशेषाश्रितमज्ञा. नत्वरूपाखण्डधर्मविशिष्टं विषयः । तत्तत्पुरुषनिरूपितत्वं च तत्तत्पुरुषीयज्ञाननिवर्यतानियामकं विषयनिष्ठकार्योपादानत्वेन च अज्ञानस्य विषयाश्रितत्वम् । तथा च अस्य यत् ज्ञानं तद्विरोधित्वस्योल्लेखे मानाभावः । विवरणोक्तिस्तु अज्ञाने नष्टे ज्ञानविरोधितया तदनुभवाभिप्राया न विरुध्यते । न च 'घटं न जानामी' ति वाक्ये नो विरोध्यर्थकतया ज्ञानविरोधित्वेनाज्ञानप्रत्ययादज्ञानकाले उक्तवाक्यजन्यज्ञाने व्याघात इति वाच्यम् । नपूर्वकजानातेरज्ञानत्वजातिमति लक्षणया तादृशज्ञानस्य तद्विषयकत्वात् । अधर्मादिपदानां पापत्वादिजातिविशिष्टे लक्षणया तज्जन्यज्ञानस्य तद्विषयकत्ववत् । तस्मान्नास्मन्मते व्याघात इति ध्येयम् । तद्वयावर्त्तकेति । अज्ञानविशेषणेत्यर्थः । तत्साधकेनेति । प्रमाविरोधित्वसविषयकत्वविशिष्टाज्ञानस्यानावृतसाक्षिसम्बन्धवत्त्वं साक्षिणोऽज्ञाननाशकत्वे अनुपपन्नमिति भावः । अ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336