Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वतमञ्जरी ।
नामिति सार्थक्यात्। नन्वतात्त्विकाद्वैतमद्वैतवाक्यस्य तात्त्विकं द्वैतं द्वैतवाक्यस्यार्थोऽम्तु । द्वैतवाक्यमध्यस्थस्याद्वैतवाक्यस्य उपांशुयाजवाक्यमध्यस्थविष्ण्वादिवाक्यस्येव स्तुत्यादिपरतया नेतुं शक्यस्वात् । तत्राह-अद्वैतवाक्यस्येति । आविद्यकेति । 'फलवत्सन्निधावफलं तदङ्ग' मिति न्यायेन द्वैतवाक्यानामद्वैतवाक्यशेषत्वात् निषेधापेक्षितप्राप्तिप्रयोजकत्वादिनोपयोग इति भावः । पदानाम् अद्वितीयादिपदानाम् । प्रकृतेति । एकमेवाद्वितीयमितीत्यर्थः । वाक्या?ति । अद्वितीयत्वाद्युपलक्षिताखण्डब्रह्मेत्यर्थः । प्रथमादिरूपस्याद्वितीयादिपदार्थस्य न केवलमखण्डवाक्याथविरोधित्वात् निरासः। किं त्वसम्भवादपीत्याह-तत्रेत्यादि । द्वितीयत्वादिति । तयोः प्रथमत्वादिना नाद्वितीयपदबोध्यता । किं तु द्वितीयान्यत्वादिना । सा च न सम्भवति । द्वितीयत्वादिति भावः । भेदत्रयेति । भेदभेद्यमात्रस्य द्वितीयत्वादद्वितीयपदेन दृश्यमात्रनिषेधसम्भव इति भावः । अपेक्ष्येति । विजातीयद्वितीयत्वावच्छिन्नप्रतियोगिताकनिषेधोऽथ इति भावः । सङ्कोचो द्वितीयपदस्य विजातीयद्वितीयपरत्वम् । एकावधारणद्वैतप्रतिषेधैरिति । एकपदेन एवकारेण अद्वितीयपदेन चेत्यथः । अत्राद्वितीयपदेन विजातीयद्वितीयनिषेधादर्थात्तादृशद्वितीयभेदो निषिध्यते । अथवा 'आत्मा वा इदमेक एवाग्र आसीत् नान्यत्किञ्चन मिष'दिति वाक्ये मिषदिति पदं आसीदित्यर्थकमित्यैतरेयभाष्ये व्याख्यानात् तदेकवाक्यतया प्रकृते द्वितीयपदस्यान्यार्थकत्वात् लक्षणायाश्चावश्यकत्वे द्वित्वसङ्खयापूरकत्वत्यागनात्मान्यविजातीयत्वेन लक्षणाया एव युक्तत्वात् तादृशत्वेनैकरूपेण निषेधे भेदस्य निषेधस्य च निषेधस्सिध्यति । विशेषणस्य भेदस्यापि विशेष्यीभूतभेद्यस्येव निषेधे बाधकाभावात् । एवमेकपदस्य केवलार्थकतया कैवल्यस्य च स्वान्यसर्वशन्यत्वरूपत्वेऽपि प्रकृते सङ्कोचेन जीवेश्वरादिरूपं यदात्मान्यत् सनातीयं तच्छून्यत्वरूपत्वेन तद्वोधकत्वात् भेदनिषेधबोधकत्वम् । एवकारस्यान्यतादात्म्यव्यवच्छेदकत्वेऽपि प्रकृते सङ्कोचेनात्मान्यस्यात्मविजातीयस्य पृथिव्यादेस्तादात्म्यव्यवच्छेदबोधकत्वम् । तथा च शाब्द एव भेदनिषेधः । एवं च भेदत्रयस्य पदत्रयेण निषेधोक्तिः प्र. कृतश्रुतेः ब्रह्मभिन्नसर्वमिथ्यात्वे पर्यवसानोक्तिश्च न व्याहता । यदि तु भेदानामेव शाब्दो निषेधः, भेद्यानां त्वार्थ इत्युच्यते, तदा द्वितीयसामान्याभावे श्रुतेरवान्तरतात्पर्यसङ्गतावपि भेदमात्रनिषेधपरतया सङ्कोचे मानाभावः । विजातीयादिभेद्यानामपि द्वितीयादिशब्दैर्बोधेन सम्भवादिति ध्येयम् । ननु, पृथिव्यादिकं न ब्रह्मसजातीयम् । ब्रह्मणो द्रव्यत्वास्वीकारपक्षे तत्त्वासम्भवात्तत्राह-अथवेति । चैतन्यभेद इति । स्वभिन्नत्वे सति चिदात्मकत्वं साजात्यं जीवादौ वर्तते ।
For Private and Personal Use Only

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336