Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे दृष्टिसृष्टिवादः]
लघुचन्द्रिका.
३०९
कारात् तदवच्छिन्नसासिविषयत्वं सूक्ष्मावस्थायां स्वीक्रियते । अज्ञानाद्याकाराया अविद्यावृत्तेस्सृष्टदृष्टिपक्षेऽपि स्वीकारात्तस्या एव सूक्ष्मावस्थाविषयकत्वान्नाधिककल्पनागौरवम् । वस्तुतः तथाकल्पने जागरादौ तद्विषयकाविद्यावृत्त्यन्तरकल्पने गौरवात् सूक्ष्मावस्थोत्पत्तिक्षण एव तद्विषयिका सैवोत्पद्यत इति कल्प्यते । अन्यथानुपपत्तेः तस्या एव वृत्तेस्सूक्ष्मा वस्थातदाश्रयसम्बन्धादिकमपि विषयः । सांसर्गिकविषयतायाः तस्यामभावेन न तया विशिष्टव्यवहारापत्तिः । सूक्ष्मावस्थातदाश्रयवैशिष्ट्यसिद्धिस्त्वनुमानादिनेति दिक् । सदातनत्वेति । अनाद्यनन्तत्वे. त्यर्थः । स्वस्वरूपेति । स्वच्छेषु सुखादिषु चित्प्रतिबिम्बसम्भवात् वृत्तिर्न स्वीक्रियते । तत्स्वीकारेऽपि परस्परविषयकवृत्तिद्वयस्वीकारान्नानवस्था । यदि तु तत्तदृश्यावच्छिन्नचिदेव तत्तदृश्यसत्तेति न सदातनत्वापत्तिरिति विभाव्यते, त. दाप्यविद्यावृत्त्यस्वीकारे चाक्षुषादिविषयत्वविशिष्टस्यैव घटादेरुत्पत्तिर्वाच्या । अन्यथा घटं पश्यामीत्यनुभवानुपपत्तेः । अत एव स्वप्ने तथा स्वीक्रियत इति भावः । सृष्टित्वापत्तिरिति । दृष्टिसृष्टेमिथ्यात्वे घटादौ तदभावसिद्धिरिति भावः । ज्ञानस्थेत्यादि । यथा ज्ञानस्य ज्ञेयत्वेऽपि तद्विषयस्य नाज्ञेयत्वं, तथा दृष्टिसृष्टेस्वसमसत्ताकदृष्टिसिद्धावपि तद्विषयघटादेरपि स्वसमसत्ताकदृष्टिरव्याहतेति भावः । अन्यभ्रमसिद्धस्यान्यदीयाज्ञानावस्थोपादानकस्य । विचित्रशक्तिकत्वेति । विचि. त्रकार्योपादानविचित्राज्ञानावस्थावत्त्वेत्यर्थः । जगदिति । 'ध्रुवो राजा विशामय' मिति शेषः । अनित्यतावादिभिरिति । अनित्यतैव एथिव्यादेः । न तु दृष्टिसृष्टिरितिवादिभिरित्यर्थः । अन्यथानयने नित्यरूपमुख्यार्थभिन्नार्थकत्ववचने । सन्तानाविच्छेदेति । सृष्टिदृष्टिपक्षे यावत् पृथिव्यादिकं तिष्ठति, तावत्कालं एथिव्यादेरवस्था स्वीक्रियते । स्थूलावस्थादृष्ट्यभावकालेऽपि सूक्ष्मावस्थादृष्टिसम्भवात् । ननु, ध्रवेत्यादे राजस्थैर्यशासने विनियोगः। पृथिव्यादि यथा स्थिरं, तथा त्वं राजा स्थिर इति चार्थ इति माधवीयभाष्योक्तिविरोध इति चेन्न । सन्तानाविच्छेदस्यैव स्थैर्यत्वात् । अगतेरिति । राजत्वाश्रयस्य देहस्य मरणपर्यन्तं न स्थैर्यम् । बाल्ययौवनादौ वृद्धिहासाभ्यां परिणामित्वेनास्थैर्यात् । अतस्स्थू. लसूक्ष्मभावापन्नदेहप्रवाहाविच्छेद एव स्थैर्य मिति भावः । काल इति । नाडीसत्त्वमित्यत्रान्वेति । 'यदा सुषुप्तो भवति । न कस्य च न वेद । हिता नाम नाड्योद्वासप्ततिस्सहस्राणि ताभिः प्रत्यवसृत्य पुरीतति शेते । यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिनीमानन्दस्य गत्वा शयीत । एवमेवैष एतच्छेते' इति वाक्ये यदा सुषुप्तः शेते, तदा एष एवमेतच्छेते । एतदिति । पूर्ववाक्योक्तब्रह्मा
For Private and Personal Use Only

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336