Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदे दृष्टिसृष्टिवादः] लघुचन्द्रिका 'बन्धकत्वं कल्प्यत इति भावः । भाश्रयविषयेत्यादि । ज्ञानेन सत्यस्य निवृत्नि चेत्, कीदृशस्य ज्ञाननाश्यत्वनियमः, किं ज्ञानस्याश्रयेण, अथ विषयेण, भाहोस्वित् , उभयेन सम्बन्धस्य । नाद्यः । आत्मज्ञानेनाहमित्याकारेण धर्माद्यनाशात्। न द्वितीयः । नीलपीतावयविनो नीलत्वेन ज्ञानात् पीतिमाद्यनिवृत्तेः । न तृतीयः । देहज्ञानेन देहात्मतादात्म्यनिवृत्तेः । मिथ्याभूतस्यैव ज्ञाननिवर्त्यत्वपक्षे तु ज्ञानात्त सामानाश्रयविषयकाज्ञानस्यैव निवृत्तिः । तथा चाज्ञानप्रयुक्तस्यैव निवृत्तिरित्यादिविवरण उक्तम् ॥ ॥ इति लघुचन्द्रिकायां ज्ञाननिवर्त्यत्वान्यथानुपपत्त्या विश्वमिथ्यात्वसिद्धिः॥ दृष्ट्यभिन्नत्व इति । दृष्टिभिन्नत्वे मानाभावात् दृष्ट्यभिन्नत्वं वाच्यम् । तथा चानन्तरोक्तदोषः । न च तद्वारणान्यथानुपपत्तिरेव दृष्टिभेदे मानमिति वाच्यम् । एकसामग्रीजन्यत्वस्याभेदव्याप्यतया सामग्रीभेदस्यावश्यकत्वादिति भावः । तदहिर्भावति । तच्छून्यत्वेत्यर्थः । दोषेत्यादि । ( दोषत्वं तावदन्यतमत्वं भ्रमत्वावच्छिन्नं प्रति जनकतावच्छेदिका या अविद्यात्वजातिः, तद्वत्वं वा । तथा च भ्रमत्वजातिमद्विषयत्वं दोषप्रयुक्तत्वम् । दोषप्रयुक्तत्वे भ्रमत्वज़ातिमद्विषयत्वे सति ज्ञातैकसत्त्वं लक्षणम् ) । परमते असत्यस्य भ्रमाङ्गीकारेण सिद्धसाधनाडूमप्रागभाववदवैयर्थ्याच्च विशेष्यदलम् । स्वज्ञानव्याप्यत्वं तदर्थः । व्याप्यत्वव्यापकत्वे कालिकेन ग्राह्ये । अज्ञानशून्यचिद्रूपं ज्ञानमपेक्ष्य लाघवादाह-अज्ञातसत्त्वाभावस्येति । स्वीयाज्ञानाभावेन व्याप्यत्वस्येत्यर्थः । निबन्धनस्येत्यन्तमनुषज्यते । तस्य च पूर्वत्रेवात्रापि दोषप्रयुक्तवृत्तेरित्यर्थः । पुरुषान्तरवेद्ये च नाज्ञानम् । मानाभावात् । यत्र हि यं पुरुषं प्रति प्रकाशप्रसक्तिः, तत्र तस्याज्ञानं युक्तम् । तथा च तत्तत्पुरुषीयाज्ञानाभावव्याप्यत्वं तत्तत्पुरुषं प्रति दृष्टिसृष्टिरिति बोध्यम् । परोक्षविषयसङ्ग्रहायासत्त्वापादकमज्ञानं लक्षणद्वयेऽपि निवेश्यम् । प्रतिपन्नेत्यादि । स्वप्रतिपत्तिविशेष्यदृष्टिनन्यवृत्तिज्ञातकसत्त्वस्येत्यर्थः । अधिष्ठानसामान्यांशदृष्टेरारोप्यमाने हेतुत्वेनोक्तदृष्टिजन्यत्वं जन्यमात्रस्याक्षतम् । द्रष्ट्रन्तरेत्यादि । दृष्टिसृष्टिपक्षे पुरुषान्तरीयसुखादिकं न ज्ञायते । किं तु पुरुषान्तरीयत्वेन स्वस्मिन्नेव कल्प्यत इति भावः । सृष्टिविषये सृज्यमान एव या दृष्टिस्सानाद्यन्यत्र । न त्वनादौ स्वीक्रियते । तत्र मिथ्यात्वसिद्धिस्तु दृश्यत्वादिनैव । न तु दृष्टिसृष्टयेति भावः । विषयाबाधेति । ननु, स्वप्नाविशेषे बाधाभा (१) 'दोषत्वं तावदन्यतमत्वम् । भ्रमत्वजातिमद्धीविषयत्वं वा दोषप्रयुक्तत्वम् । भ्रमत्वावच्छिनं प्रति जनकतावच्छेदिका या अविद्यात्वजातिः तद्वत्त्वं वा दोषत्वम् । तथा च दोषप्रयुक्तत्वे सति शा. सैकसत्त्वं लक्षणम् ।' इति पाठान्तरम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336