Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ अद्वतमञ्जरी । वोऽप्यनुपपन्न इति चेत्, न । दोषप्रयुक्तत्वाज्ञानेनाबाधोपपत्तेः । सत्यस्य वस्तुनः इदमवच्छिन्नचितः । मन्दाधिकारीति । अधिकारिभेदकल्पिता हि प्रक्रियाभेदाः शास्त्राचार्यैरनूदिता इति भावः । यद्यपी'दं रजत'मित्यादौ इदमादिरूपाधिष्ठानाकारा वृत्तिः पूर्व सम्भवति । पूर्वजाताया अपि तस्या रूप्यकालानुवृत्तिसम्भवात् , तथापीदं रूप्यमित्याकारा विशिष्टविषयिकैव वृत्तिः । लाघवात् । अधिष्ठानज्ञानहेतुत्वपक्षे तु वृत्तिद्वयस्वीकारात् न दोष इति भावः । चैतन्यं न वस्त्विति । उपार्मिथ्यात्वेऽपि तदवच्छेदेन अधिष्ठानताश्रयस्य शुद्धचैतन्यस्य सत्यत्वमिति भावः । स्थित्यविरोधादिति । सृष्टदृष्टिपक्षेऽपि भाविनि ज्ञानविषयत्वस्येवाज्ञानविषयत्वस्य स्वीकारादिति भावः । सत्ताकाल इति । दृष्टिसृष्टपक्ष इत्यादिः । भाव्यवच्छेदेनाज्ञानमनुभवबलात् कार्यान्यथानुपपत्तेश्च कल्प्यत इति भावः । भित्रविषयत्वेऽपीत्यादि । पूर्वज्ञाने रुप्यमिदमात्मकम् । द्वितीयज्ञाने तु स्वप्रतियोगेकन्वसम्बन्धेनाभावगतम् । यथाज्ञानं सृष्टिस्वीकारात् । अतो भिन्नविषयकत्वेऽपि स्व दक्तरू प्ययोरुक्तरूप्यत्वरूपानादिधर्मेण सारूप्यमिति भावः । यद्वा सारूयाद्विरोधेिधीविषयत्वेन समानत्वात् यथा सृष्टदृष्टिपक्षे तद्विशिष्टबुद्धौ तदभावधीविरोधिनी, तथा दृष्टिसृष्टिपक्षे रूप्यान्तराभावधीः । विरोधितावच्छेदकशक्तिविशेषस्य तस्यामपि स्वीकतुं शक्यत्वात् । तथा च रूप्यबादेः प्रतिदृष्टि देऽपि न क्षतिः । व्यावहारिकेणेति । अभावेनेति शेषः । तृतीयार्थः प्रकारित्वम् । तथा च व्यावहारिकामावधीावहारिकद्वैतवत्त्वधीबाधिका यथेत्यर्थः । उक्तत्वादिति । वस्तुत ईशस्येव जीवेशभेदादेरपि स्थूलमनःपरिणामत्वमेव । सुषुप्त्यन्यकाल एव तस्य दृष्टेः । अज्ञानसत्त्वेन च नै सुषुप्तिप्रलययोर्मुक्तिरिति ध्येयम् । संस्कारादोरिति । अज्ञायमानकार्यस्य दृष्टिसृष्टिपक्षे अनङ्गीकारात्तादृशसंस्कारादेरभाव इति भावः । कारणात्मना कारणगतसूक्ष्मावस्थारूपेण । तस्य च रूपस्य न दृष्टिगृष्टिः । असम्भवात् । न हि प्रलये सुषुप्तौ वा संस्काररूपसूक्ष्मावस्था जीवेन ज्ञातुं शक्यते । न च सर्वकार्याणां ज्ञातैकसत्त्वनियमाभङ्गाय सूक्ष्मावस्थैव न स्वीक्रियतामिति वाच्यम् । आतत्त्वसाक्षात्कारं दृश्यानामुच्छेदाभावेन कस्याश्चिदवस्थाया अवश्यवाच्यत्वात् । न च मिथ्यात्वव्यापकस्य दृष्टिसृष्टिमत्त्वस्याभावेन मिथ्यात्वाभावापत्तिरिति वाच्यम् । अनादिषु व्यभिचारेण दृष्टिसृष्टिमत्त्वस्य मिथ्यात्वाव्यापकत्वात् । अत एव धर्माधर्मयोरपि विहितनिषिद्धक्रियासूक्ष्मावस्थारूपत्वेन दृष्टि. सृष्ट्यभावेऽपि न क्षतिः । अथवा कारणात्मना कारणीभूतसाक्ष्यात्मविषयसूक्ष्मावस्थारूपेण । तथा च सुषुप्तिप्रलययोस्सूक्ष्मावस्थाविषयकनिर्विकल्पकाविद्यावृत्तिवी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336