Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
अद्वैतमञ्जरी ।
न्ध इति भावः । प्रतिभासकल्पकेत्यादि । स्वविषयकजन्यधीकालत्वव्याप्यस्वद्रष्ट्रकत्वमित्यर्थः । अविद्याविषयकाविद्यावृत्तेः प्रलयादावस्वीकारात् । नाविद्यायां तदिति भावः । सादिकल्पकेति । अविद्योपहितचिद्रूपोऽविद्याकल्पकोऽनादिः । शुक्तिरूप्यादेस्त्वधिष्ठानज्ञानवान् कल्पकः सादिः । अथवा सादिकल्पनाविषयत्वमित्यर्थः । अविद्यायास्तु कल्पना स्वोपहितचिदेव । न वृत्तिरिति भावः । प्रलयादावप्यविद्याविषयिका वृत्तिरन्यदैव वेति मतेऽप्याह-विद्यति । विद्याया अनिवृत्तिस्सम्बन्धः तदप्रयुक्ता निवृत्तिः नाज्ञानस्य । किं तु तत्कार्यस्य जीवेशभेदादिनिवृत्तिरपि तत्प्रयुक्तेति भावः । तस्या अपि तदप्रयुक्तत्वे आह-मागभावेति। प्रकृते अज्ञाने । बाधकेति । विनाशिभावस्य सादित्वनियमो भावत्वे उपादानत्वादिमत्त्वमभावत्वे बाधकम् । वस्तुतो भावत्वं सद्रूपत्वम् । अभावत्वमसद्रूपत्वम् । आद्ये बाध्यत्वादि बाधकम् । द्वितीये जनकत्वादि । अत एवाभावविलक्षणत्वं तुच्छव्यावृत्तमिति वक्ष्यते । अभावत्वधर्माश्रयविलक्षणत्वं तुच्छेऽप्यस्ति । अत एव सद्विलक्षणयोरज्ञानभ्रमयोरित्यादि वक्ष्यते । यत्तु तृतीयप्रकारे सिद्धे विरोधासिद्धिः तस्यां सत्यां स इत्यन्योन्याश्रय इति, तन्न । तृतीयप्रकारस्य बाधकसत्त्वाधीनत्वेन विरोधासियनपेक्षत्वात् । अन्यथा कर्मादौ द्रव्यगुणाद्यपेक्षया तृतीयप्रकारो न स्यात् । अनादेरिति । अनादित्वे सत्यसद्विलक्षणत्वं हेतुः । प्रागभाववारणाय विशेष्यम् । अभावमात्रं तु तुच्छत्वान्नासद्विलक्षणम् । अभावस्यातुच्छत्वेऽपि तुच्छवारणायैव तत् । साक्षिणि अविद्योपहितचिति । वृ. त्युपहितस्य साक्षित्वमतेऽप्याह-किं चेति । धारावाहिकति । सर्वदोत्पद्यमानेत्यर्थः । अविद्याविषयिणी वृत्तिरेकैवेति स्वीकारे संस्कारानुपपत्तिः । संस्कारोत्पत्तिपूर्वमेकैव वृत्तिरिति स्वीकारे संस्कारोत्पत्तिकाले अनाद्यविद्यादेरसत्त्वापत्तिः । यावत्कालमेकवृत्तिस्वीकारे दोषाभावः, तावत्कालमेकैव सा । तन्नाशे कारणविशेषकल्पनान्नोत्तरवर्तिमात्रेण तदापत्तिः । अन्यथानन्तवृत्तिकल्पने गौरवादिति तु युक्तम् । यत्तु प्रतीतिसत्त्वे सुखादेनाशासम्भवः । तन्नाशकस्यैव तनाशकत्वावृत्त्युपहितचितस्सुखादिसाक्षित्वे तु सुखादिधीः व्यावहारिकप्रमा न स्यात् । दोषजन्यत्वादिति, तन्न । सुखादिनिमित्तनाशादेरपि सुखादिनाशकत्वसम्भवात् आगन्तुकदोषाजन्यत्वेनाविद्यादोषजन्यस्यापि सुखादिज्ञानस्य प्रमात्वसम्भवा. च । ब्रह्मणः परिणामित्ववादिनं प्रत्यप्याह-अचेतनत्वेनेति । निवानिवः याज्ञाने । तस्यापीति । अभावविलक्षणस्याप्यज्ञानस्याभावोपादानत्वसम्मवस्यो क्तत्वेनेत्यादिः । आत्मनीति । शुद्धात्मा नोपादानमिति पक्षे शुद्धात्मनीत्यर्थः
For Private and Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336