Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 324
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१२ अद्वैतमञ्जरी । सर्वमुक्त्यापत्तिरिति चेन्न । ‘ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पद'मित्यनेन सगुणब्रह्माहमित्युपासकानामपुनरावृत्त्या ब्रह्मलोकस्थितानां कैवल्यप्राप्तिबोध्यते । न तु कल्पान्ते अवश्यं सेति बोध्यते । यदा कुत्र चिन्मनसि तत्त्वदर्शनं, तदा तेषामपि कल्पान्ते प्रारब्धभोगसमाप्त्या कैवल्यप्राप्तिरित्यत्रैव तात्पर्यादिति भावः । एकवचनेति । इदमुपलक्षणम् । ‘एको देवस्सर्वभुतेषु गूढ' इति श्रुतावेक इति पदस्यापि तत्र साक्षी चेता' इत्यादिवाक्यशेषात् देवपदं पुरत्रयक्रीडकपरम् । अज्ञानावृतवस्तुरू रूपकत्वेन गूढ इति भावः । इ. त्यादिश्रुतीत्यादिपदात् 'पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते, स एष इह प्रविष्ट' इत्यादिश्रुतयो 'देही कर्मानुगोऽऽवशः शरीराणि विहाय जीर्णान्यन्यानि ग्रह्णाति नर' इत्यादिस्मृतयश्च ग्राह्याः । अनेकत्वेति । जीवानेकत्वेत्यर्थः । अनेकखानुवादेनेति । वस्तुतो अविद्यान्तरे वर्तमानत्वमविद्याप्रयुक्तदुःखाद्यभिमानित्वम् । अत एव पण्डितम्मन्यमाना इति शेषः । तथा च अविद्यान्तरे वर्तमानत्वं रमणीयचरणत्वं सति लीनोपाधिकत्वं चेति त्रयं मनोऽवच्छिन्नस्यैव । 'सति सम्पद्य न विदुस्सति सम्पत्स्यामह' इति वेत्तृत्वाभावस्तु स्मर्तृ. त्वाभावरूपः । अन्यथा सम्पयेत्यस्य स्थाने संपद्यमाना इत्युच्येत । तथा च मनोऽवच्छि. न्नताकाल एव साक्षिणस्तदुक्तः । एवं सुनिश्चितार्थत्वं मनोऽवच्छिन्नस्यैव। परमुक्तिरपि शुद्धाभेदविवक्षया तस्यैव । अन्यथा हेतुफलोवैयधिकरण्यापत्तेः । गौडपादीये अनादिमाययेत्यादिवाक्ये 'स्वर्गकाम' इति यजेतेत्येकवचनरयोपादेयकवयपरत्वेऽपि स्व काम इति सुबेकवचनमविवक्षितम् । उद्देश्यविशेषणरय ग्रहैकत्वाधिकरणादौ तथोक्तत्वात् । अत एव पुरत्वस्याविवक्षया स्त्रिया अपि पतिसाहित्येनाधिकारः षष्ठे उक्त इति भावः । अतत्परत्वादिति । एकत्वश्रुत्या दकं तु तत्परम् । तस्याप्राप्तत्वाल्लाघवाच्चेति भावः । समष्ट्यभिमानिनः तत्तन्मनोऽवच्छिन्नतत्तदभिमानवतः अविद्योपहितस्येत्यर्थः । सर्वाभिमानिन इति । स्वकल्पितसर्वात्मकत्वसर्वज्ञत्वादिविशिष्टेश्वराभेदोपासनाधीनसर्वाभिमानयुक्तस्ये त्यर्थः । उपपद्यत इति । तादृशाभिमान. युक्तप्रमात्रैव तथोक्तमिति भावः । ननु, भेदस्यापि तादृशज्ञानविषयत्वसम्भावनया भेदवादिनोऽपि तत्त्वमस्यादिवाक्यवक्तृत्वसम्भवाद्विशिष्य तत्त्वज्ञत्वेनैव गुरुः कल्प्यः। तत्राह-अन्यथा तवापीति । तथा च भेदिमते स्वसिद्धान्तश्रवणाद्यथा नाद्वैते तत्सम्भावना, तथैवाद्वैतमतेऽपि भेदे न तत्सम्भावना । यथा च तव भेदानिर्णयेऽपि भेदनिर्णयवानयमिति कल्पना, तथा ममाद्वैतनिर्णयवानिति कल्पना । अन्यथा तत्त्वनिर्णयात् पूर्वं तत्र मोक्षसाधनत्वज्ञानासम्भवादिच्छापि न स्यात् । यथा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336