Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदे एकनीववादः लघुचन्द्रिका । ३११ रिणमिति । उक्तं हि संक्षेपशारीरके- 'तत्त्वावेदकमानदृष्टिरधमा तत्त्वक्षतिमध्य. मा तत्त्वप्रच्युतिविभ्रमक्षतिकरी तत्रान्त्यष्टिर्मता । जीवैकत्वमुमुक्षुभेदगतितो व्यामिश्रदृष्टिद्विधा भिन्ना तत्र च पूर्वपूर्वविलयादूर्वार्ध्वदृष्टिर्भवे' दिति । प्रत्यक्षादिमानानां तत्त्वावेदकत्वदृष्टिराद्या । तेषां व्यावहारिकमानत्वदृष्टिः द्वितीया । तत्त्वप्रच्युतेः व्यावहारिकमानत्वस्य शुक्तिरूप्यादिबुद्धाविव प्रत्यक्षादिमानेषु विभ्रमत्वहष्ट्या क्षतिकरी जन्यदृश्यमात्रे प्रातिभासिकत्वदृष्टिपर्यवसिता तृतीया । सापि जीवैकत्वे मुमुक्षुभेदे च गमनात् द्विविधा । व्यावहारिकमानत्वाभावभ्रमत्वविषयकत्वेन व्यामिश्रा दृष्टिः । पूर्वपूर्वेति । मुमुक्षुभेददृष्टेः पश्चादुक्तत्वेऽप्याथिकं जीवैकत्वदृष्टितः पूर्वत्वं बोध्यम् । उपपत्यन्तरमिति । अज्ञायमानतादशायां घटादावनन्तसंयोगादिकं इन्द्रियक्रियासंयोगादिकं तस्य प्रत्यक्षहेतुत्वादिकं प्रातीतिकव्यावहारिकयोमिथो व्यावृत्तरूपेणान्यत्र हेतुत्वादिकं न कल्प्यते । ज्ञानहेतुस्वस्थले विषयस्यैव हेतुत्वं जन्यज्ञानाकल्पनश्चेति लाघवम् । घटं पश्यामीत्यादिप्रत्यये च घटादौ चाक्षुषाद्यभेदो विषयो घटादावेव चाक्षुषत्वादिधर्मस्वीकारादित्यादिरूपमिति शेषः । द्वैतजातं जातद्वैतम् ॥ ॥ इति लघुचन्द्रिकायां दृष्टि सृष्टयुपपादनम् ॥ निर्जीवं जीवावच्छेदकमनःसुखाद्यनवच्छेदकम् । समष्ट्यभिमानिनः तत्तन्मनोऽव. च्छिन्नानां तत्तदेहाभिमानानामाश्रयस्य । लयकाले तमेव तन्मनोऽवच्छिन्नमेव । कल्पकत्वेन मनस्तत्परिणाममात्रद्रष्टुत्वेन । कल्पितत्वादीत्यादिना एकजीवेन सर्वप्रमात्रादिकं कल्पितमित्यादिग्रहणम् । तथा च जीवभेदज्ञानात् एकबोधनार्थ अप, रस्य प्रवृत्तिः एकजीवकल्पितं सर्वमिति निश्चयेऽपि मनोऽवच्छिन्नानां भिन्नत्वात् युज्यते । न ह्येकमनोऽवच्छिन्नेनापरमनोऽवच्छिन्नं कल्पितम् । न चैकस्य मो. क्षार्थप्रवृत्तिं जानतो ऽपरस्य तदर्थं प्रवृत्तिर्न स्यादिति वाच्यम् । परप्रवृत्त्या मोक्षावश्यंभावानिश्चयात् मुमुक्षुवत्प्रतारकाणामपि दृष्टत्वात् विवेकिनां मोक्षार्थ प्रवृ. तेरेव रोचमानत्वात् सांसारिकप्रवृत्तेः दुःखबहुत्वनिश्चयादिति भावः । तथानुभवेति। नानाशरीरेषु जीवस्य प्रत्यक्त्वेनानुभवेत्यर्थः । असिद्धिरिति । तदनुभवस्याप्यपलापसम्भवात् इति शेषः । वैषम्यादिति । पल्लवाज्ञानस्य तत्तन्मनोवच्छिन्नत्वेन तत्तन्मनःपरिणामज्ञानेन निवृत्तिः । मूलाज्ञानस्य त्वनवच्छिन्नत्वेन किञ्चि. न्मनःपरिणामज्ञानेन निवृत्त्या सर्वदृश्यनिवृत्तौ मनोऽन्तरमेव दुर्लभम्। दूरतस्तत्र संसारापत्तिः । प्रारब्धकर्मसत्त्वे तु मनोऽन्तरे संसार इष्टः । तत्त्वज्ञानावच्छेदकमनसि चेति भावः । ननु, सर्वाभिमानिनो हिरण्यगर्भस्य जीवस्य स्वीकारे तस्य करुपान्ते मुक्त्या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336