Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 315
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे ज्ञाननिवत्यत्वान्यथानुपपत्तिः लबचन्द्रिका ।। स्य हि पूर्वोक्तहशब्दसमानार्थकत्वे प्रपञ्चमात्रं वदेदतोऽमुत्रेत्यप्युच्यते । य इहे. त्यत्र विद्यमानेन इहशब्देन तु ब्रह्मणो न पार्थक्ये प्रतियोगित्वेनोपस्थितिः । तथा च प्रतियोगिविशेषानुपादानात् पार्थक्यसामान्यस्यैव निषेधादस्मदिष्टसिद्धिः । किञ्चनेति पदवैयर्थं च । ननु, गुणगुणिभावावयवावयविभावादिप्रयुक्तं यद्यत् ब्र. ह्मणः प्रपञ्च पार्थक्यं, तत् किमपि प्रपञ्च नास्तीत्यर्थलाभार्थकत्वेन तत्सार्थकमिति चेन्न । नानाशब्दस्य स्वार्थिकनाञ्प्रत्ययान्तनशब्दत्वेन निपातत्वात् तदर्थे पार्थक्ये किञ्चनेति शब्दार्थस्याभेदान्वयाभावात् । विस्तरस्तु बृहच्चन्द्रिकायां द्रष्टव्यः ॥ इति लघुचन्द्रिकायां सर्वाद्वैतश्रुतेः प्रत्यक्षादिविरोधोद्धारः॥ तरति अत्यन्तमुच्छिनत्ति । शोकं भीतिहेतुं द्वैतमिति यावत् । भिद्यते नाश्यते । हृदयग्रन्थिः अहङ्कारः । छिद्यन्ते कारणोच्छेदादुच्छिद्यन्ते । श्रुतिबोधितेति । 'धातुसम्बन्धे प्रत्यया' इत्यनुशासनाज्ज्ञाननिवर्त्यत्वं श्रुतिबोधितम् । जन्यजनकभावसम्बन्धस्यैव निवृत्तिज्ञानयोर्बोधात् । अथवा यत आत्मविदतस्तरतीतिश्रुत्यर्थ इति भावः । बन्धमिथ्यात्वे दृश्यमात्रमिथ्यात्वे । अधिष्ठानप्रमात्वमिति। ननु,मिथ्यानिष्ठप्रतियोगितासम्बन्धेन नाशं प्रति स्वसमानविषयकाज्ञानतत्प्रयुक्तान्यतरत्वसम्बन्धेन प्रमात्वेग हेतुतेति भावः । ननु, दृश्यनिष्ठप्रतियोगितासम्बन्धेन नाशं प्रति प्रमात्वेन हेतुत्वमस्तु । यन्निष्ठेत्यादिवक्ष्यमाणनियममूलीभूतहेतुत्वानां मयापि स्वीकारान्न घटादिप्रमया पटाद्यज्ञाननाशः । तथा चाकाशादेरज्ञानानुपादानकत्वेऽपि व्यावहारिकदृश्यनाशे मूलाज्ञाननिवृत्तेर्हेनुन्वकल्पनादाकाशादेरात्मज्ञाननितय॑त्वस्य श्रौतस्योपपत्तिः । शुक्त्यादिप्रमाया अपि शुक्त्याद्यज्ञाननिवृत्तौ शुक्तिरूप्यादिनिवृत्ति प्रति विशिष्यहतुत्वेन क्लुप्तायां हेतुत्वम् । न तु शुक्तिरूप्यादेरज्ञानप्रयुक्तत्वात् ज्ञाननाश्यत्वम् । येन तत्र क्लुप्तसामान्यहतुत्वेनैवाकाशादिनाशसिद्धिः । शुक्तिरूप्यादेर्माध्वादिमते तुच्छत्वेनाज्ञानाप्रयुक्तत्वात् । एवं चाकाशादेरज्ञानप्रयुक्तत्वासिध्या मिथ्यात्वासिद्धिरत आह--एतादृशनियमानभ्युपगम इति । नियमान्तराकल्पनेनेति । शुक्तिरूप्यादिनिवृत्तौ शुक्त्यज्ञानादिनाशस्य विशिष्य हेतुत्वकल्पनमूलकनियमाकल्पनेनेत्यर्थः । आत्मप्रमानिवर्त्यत्वे आत्मप्रमाजन्येनात्माज्ञाननाशेन निवर्त्यत्वे । तदज्ञानकल्पितत्वं तदज्ञानप्रयुक्तत्वम् । सामान्यतो मिथ्याभूतप्रतियोगिकनाशे प्रमात्वेनोक्तहेतुत्वेऽपि प्रमाविशेषस्य मिथ्याविशेषनिवर्तकत्वाय यन्निष्ठेत्यायुक्तनियममूलहेतुत्वविशेषस्येव प्रयोजननाशस्य स्वविशिष्टे प्रयोज्यनाशे हेतुत्वस्यापि क्लप्तत्वात् आत्माज्ञाननाशात् प्रपञ्चनाशनिहाय प्रपञ्चस्योक्तप्रयुक्तत्वं कल्प्यते । जीवेशभेदाद्यनादेरप्यज्ञानप्रयु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336