Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद अद्वैतश्रुतेर्बाधोद्धारः] लघुचन्द्रिका । २९९ त्वेऽपि स्वच्छवोधकत्वे वाच्यलिङ्गत्वात् पुंस्त्वम् । सलिलमिवाचरतीत्याचारार्थक्विप्प्रत्ययान्तात् पचाद्यच्प्रत्ययसम्भवात् ‘सर्वप्रातिपदिकेभ्यः क्विप्' इत्याचारार्थे क्विप्प्रत्ययानुशासनात् । सलिलवदाचारश्च सर्वमलासंसर्गित्वम् । यत्तु 'आपो वा इदमासन् सलिलमेवे' त्यादिश्रुतेः सृष्टिपूर्वकाले अद्वितीयो द्रष्टा परमात्मा सलिले भवतीत्यर्थ इति, तन्न । उक्तवाक्यस्य त्वंपदार्थबोधकप्रकरणस्थत्वेनोक्तार्थस्यानन्वयात् । न च द्वैताद्वैतयोभिन्नसत्ताकत्वेनाविरोधित्वेऽपि द्वितीयाभावोपलक्षितब्रह्मज्ञानस्य द्वितीयविशिष्टब्रह्मविषयकत्वासम्भव इति वाच्यम् । पारमार्थिकत्वेन यो द्वैताभावः,तदुपलक्षितब्रह्मज्ञानस्य तत्सम्भवात् द्वैतमूलोच्छेदकस्यैव द्वैतविशिष्टब्रह्मविषयकत्वासम्भवाच्च । सदभेदेनेत्यादि । सदभेदविशिष्ट प्रपञ्च आसीदित्यर्थं प्रतिपाद्येत्यर्थः । तनिषेथे व्याघातः सत्त्वस्य प्रपञ्चे प्रतीतस्य व्याघातः । ननु, सदभिन्नस्य सत्त्वमेवाद्वितीयत्वं न विरुद्धम् । सदात्मनोभयोः सम्भवात्। तत्राह-नहीत्यादि । सद्रूपमात्रस्य न सत्त्वमुच्यते । किं तु सदभिन्नप्रपञ्चस्य । तथा च तनिषेधे नासत्त्वरूपमिथ्यात्वस्य तत्र लाभादासोदित्यनेन सत्त्वलाभाद्विरोध इति भावः । घ. टादिकं स्वोत्पत्तिपूर्वं मृदेवासीदित्यादौ यथा घटाद्यभेदोपलक्षितमृदेवासीदित्यर्थः । तथा प्रकृतेऽपीदमभेदोपलक्षितसदेवाग्र आसीदित्यर्थ इत्याशयेनाह-सव्यतिरेकेणेति । सदन्यरूपेणेत्यर्थः । सदन्यदिति शेषः । निषेधार्थत्वात् सदेवेत्येवकारार्थत्वात् अद्वितीयादिपदार्थत्वाच्च । एवं च प्रपञ्चे सत्यसम्बन्धो न बुद्ध्यतइति नोक्तविरोधो विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदार्थकत्वेन सदन्यसामान्येऽग्रकालासत्त्वबोधकत्वमिति भावः । असत्त्वोक्तौ अग्रकालासत्त्वोक्तौ अद्वितीयादिपदैः सदन्यसामान्यस्य निषेधोक्तौ च । सदात्मना सदैक्येन। ब्रह्माभिन्नस्यति । ब्रह्मैक्यापन्नस्येत्यर्थः । ब्रह्मैक्यरूपेणेति यावत् । विभीयादिति । नन्वयकालासत्त्वस्याग्रकालीनाभावप्रतियोगित्वस्य वा सदन्यसामान्ये बोधनेऽपि न मिथ्यात्वसिद्धिः । व्याहतप्रपञ्चस्य स्वकाले स्वसमानाधिकरणाभावप्रतियोगित्वासिद्धेरिति चेन्न । उक्तासत्त्वप्रतियोगित्वयोः न प्रकृते धीः । किं त्विदमभिन्नं अग्रे यदासीत् तत् सदेव । एकमेवाद्वितीयमित्येवमुद्देश्यविधेयभावस्य विवक्षितत्वात् अग्रे विद्यमानमनूद्याखण्डसद्वितीयविधानात् अग्रकालविद्यमानत्वोपलक्षिते वस्तुनि अख'ण्डसद्वितीयस्यैव धीः । तथा चावान्तरतात्पर्येण द्वितीयसामान्यस्य मिथ्यात्वधीः । एवं चाग्रादिपदानि न व्यर्थानि । शून्यवादिनो हि सृष्टिपूर्वकाले सद्वस्तु नाङ्गीकुर्वन्ति । तदङ्गीकुर्वन्तोऽपि तार्किकादयो नाद्वितीयमङ्गीकुर्वन्ति । तत्र सदित्यनेनाद्यानां निरासः । अद्वितीयादिपदैस्तु द्वितीया For Private and Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336