Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ अद्वतमञ्चरी । स्वतेति । तथा च भेदग्राहकं यद्यज्ज्ञानं, तत्र तत्र तत्तदन्यसर्वभिन्नत्वमर्थापत्तिविषयो वाच्यः । एवञ्चोक्तज्ञानस्य प्रत्यक्षार्थापत्त्याद्यनन्तत्वेनानुगतरूपं विना पक्षतया साध्यघटकतया च न तन्निर्देशसम्भवः । न च भेदग्राहकत्वेन तेषामनुगम इति वाच्यम् । भेदग्राहकभिन्नभेदस्य साध्यत्वे भेदग्राहकाणां मिथो भेदस्यार्थापत्त्यविषयतया तेष्वेवाद्वैतश्रुत्यवकाशादिति भावः । नानात्वात्। तत्तद्धर्मावच्छिनप्रतियोगिताकभेदत्वरूपत्वात् । विश्रान्ताविति । तत्तदनन्तधर्मावच्छिन्नप्रतियोगिताकभेदानां दुर्जेयत्वात् क्वचित् कस्य चित् भेदज्ञानासम्भव इत्यपि बोध्यम् । तथाहीति । प्रपञ्चस्येति शेषः । सर्वाभेदे उक्तार्थापत्तिविषये सति । स्वाभेदः स्वाभेदापत्तिः । कथमित्यादि । चरमज्ञाने आदौ लब्धपदा पश्चात् सर्वाद्वैतविषयेति कथमित्यर्थः । द्रागेव युगपदेव । प्रामाण्यमित्यादि । यत्र प्रत्यक्षादिना भेदो न गृहीतः, तत्र श्रुतेरबाधितविषयकत्वम् । प्रत्यक्षादिविषये तु सर्वत्र श्रुतेः प्रवृत्त्या प्रत्यक्षादिकं न बाधितविषयकं सम्भवति । अतः श्रुतिः प्रत्यक्षादिवाधिका । एवं श्रौतमद्वयज्ञानं सर्वद्वैतोच्छेदकत्वेन बाधकत्वाभिमतत्रत्यक्षादिस्वरूपोच्छेदकम् । अतः प्रत्यक्षादिकं न तद्बाधकम् । बाध्यज्ञानोत्पत्त्युत्तरकाले हि बाधकमनुच्छिन्नस्वरूपं वाच्यम् । सर्वकल्पनामूलोच्छेदकत्वादपि श्रौतज्ञानमवाध्यम् । तदुक्तं खण्डने-'प्रवृत्तेनाप्यनौचित्यमूलं येन न लूयते । तत्रानौचित्यसाम्राज्यं वैपरीत्यात्तु नात्र तत् ॥' इति । अत्राद्वैतज्ञाने इ. त्यादिरीत्या श्रुतेः बाध्यत्वशङ्कानिरासेन प्रामाण्यं व्यवस्थापयतामस्मदीयज्ञानानामेव क्रमेणोत्पत्तिः । श्रुत्या तु युगपदेव सर्वाद्वैतं बोध्यते । न तु प्रत्यक्षाद्यगृहीतभेदके चरमज्ञाने वा प्रथमतः पश्चादन्यत्राद्वैतं बोध्यत इति भावः । न स्यादिति । प्रत्यक्षादिरूपेणायोग्यताज्ञानेन प्रतिबन्धादिति शेषः । अत्यन्तासति विपरीततया निश्चिते कलहादिस्थल इति शेषः । अबाधादिति । कलहादिस्थले वाक्यार्थज्ञानस्यानाप्तवाक्यनन्यत्वादिना भ्रमत्वेऽपि श्रौतज्ञानस्योक्तरीत्या प्रमात्वे ज्ञानरूपबाधासम्भवादित्यर्थः । स्वतःप्रामाण्यनिश्चलां स्वतस्सिद्धप्रमात्वेनाप्रामाण्यज्ञानानास्कन्दिताम् । विपरीतज्ञानरूपायोग्यताज्ञानप्रतिवध्यता परोक्षापरोक्षसाधारणरूपेण न सम्भवति । प्रत्यक्षस्येच्छाविषयस्याप्रतिबध्यत्वेन तव्यावृत्तत्वरूपेणैव तस्याः वाच्यत्वात् । अत एवोक्तं मणिकारेण-'प्रत्यक्षादावुत्पन्ने ज्ञाने अप्रामाण्यमासज्यते बाधेन। अनुमिती तु उत्पत्तिरेव प्रतिबध्यत' इति । तथा च परोक्षस्यानुमितित्वेनैव प्रतिबध्यत्वम् । विपरीतधीसत्त्वे उद्बोधकसत्त्वे मानाभावेन तदभावादेव स्मृत्यनुत्पादात् अनुगतोद्बोधके मानाभावात् । मावे वा कलहादिस्थले शाब्दज्ञानस्य विपरीत For Private and Personal Use Only

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336