Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra २९४ www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir शक्यत्वात् तादृशज्ञानस्य च पूर्वज्ञानस्य चरमभेदज्ञानादिबाधकत्वसम्भवेनानुपपत्त्यभावात् । तादृशज्ञानोत्तरं तु बाधकत्वज्ञानं नास्त्येव । सर्वद्वैतोपमदत् । भेदज्ञानं तु पूर्वं जातमपि न सर्वभेदविषयकमिति न तेनाद्वैतज्ञानस्योत्पत्तिप्रतिबन्ध इति भावः । सुदूरेत्यादि । चरमभेदधीभिन्नेषु सर्वेषु विषयरूपदेशेषु भेदावगाहनरूपं धावनं कृतवत्यपि सुषुप्तिलोपाद्यापत्तिरूपश्रान्त्या चरमभेदधीरूपदेशे भेदावगाहनरूपं घावनं कर्तुमशक्ता बाधबुद्धेर्भेदज्ञानस्य परम्परा श्रेणी निवृत्तौ तस्या अद्वयश्रुतिबाधकत्वायोग्यत्वप्राप्तौ पाणिग्राहविरुद्ध विषयकत्वरूपबाधकतावच्छेदक युक्तैरद्वयाम्नायैवध्यत इत्यर्थः । इतरप्रतियोगिकभेदेति । स्वविषयात् ज्ञानान्तराव त्यर्थः । इतरप्रतियोगी इतरात्मकप्रतियोगी । सप्रतियोगिकत्वेन भेदस्फुरणस्यैवाभेदज्ञानविरोधित्वात्तदेव प्रकृते वाच्यम् । तच्च न सम्भवति । प्रतियोग्यनुपस्थितिकालीनस्य साक्षिनिष्ठ भेदस्याहतत्वेन तत्स्फुरणस्य प्रतियोगिधीसापेक्षत्वात् अभावमात्रस्यानुपलब्धिमानगम्यत्वे तु न भेदे साक्षिवेद्यत्वशङ्कापीति भावः । अन्यथा साक्षिणः इतरनैरपेक्ष्येण स्वनिष्ठ भेदग्राहकत्वे । अन्तःकरणाद्यभेदभ्रमः अन्तःकरणादेर्भेदाविषयकोऽहमिति भ्रमः । न स्यात् । इतरसापेक्षतयोक्तभेदग्राहकत्वे तु विपरीतसंस्काररूपदोषाभावस्थोक्तभेदस्फुरणापेक्षणीयत्वात्तदभावान्न तादृशस्फुरणम् । न च मम मन इति भेदस्फुरणं सर्वदास्त्येवेति वाच्यम् । तस्य तादात्म्यविषयत्वेऽपि भेदाविषयकत्वात् । शरीरत्वेनैव मनस्त्वेनापि तादात्म्याध्यासस्य स्वीकारात् । मम मन इत्यस्य सम्भवेऽपि ममाहमित्यस्यासम्भवात्तदापादनसम्भवाच्च । एतेन मनआत्मनोर्भेदज्ञानस्य सत्वेऽपि विपरीतभावनारूपदोषात्तयोरभेदभ्रमसम्भव इति तदभावापादनमयुक्तमित्यपास्तम् । ज्ञानादिनेत्यादिना स्वविषयग्रहः । भेदं ऐक्याज्ञानात् स्वविषयाच्च स्वस्य भेदम् । सर्वतो भिनेति । बुद्धित्वात् बुद्ध्यन्तरवदिति शेषः । अनुमानाविषये अनुत्रेयभेदाप्रतियोगिनि । वाक्यमपीत्यपिनाऽनुमानसमुच्चयः । त्वादत्यादि । सर्वस्मिन् पक्षीकृते हेतोरभावः । तस्मिन् तस्याभावेन हेतौ स्वरूपासिद्धेः । अद्वैतमते साध्यहेत्वोरभेदेन साध्याविशेषः । तयोः पक्षस्य चैक्यात् बाधस्वरूपासिद्धिव्याप्यत्वासिद्ध्यादिकञ्च । एवं दृष्टान्तस्यापि पक्षत्वादृष्टान्तासिद्धिश्च । सर्वस्य भेदप्रतियोगित्वानुयोगित्वे विशिष्य तत्तद्रूपेण निवेश्ये । अन्यथा केनचिद्रूपेण ते आदाय सिद्धसाधनार्थान्तरयोरापत्तेः । तथा च तत्तद्रूपेण ज्ञाने आवश्यके सर्वश्यापत्तिः । एवं च हेत्वाद्यभावे सार्वइये च अद्वैतवादिभिरास्थिते आपादिते सति सर्वं पक्षयता पक्षयितुं पूर्वं प्रवर्त्तमानेन त्वया किञ्चित् कानिचित् त्यक्तव्यानि पक्षात् बहिष्कार्याणि । तदा च सैव त्यक्ता तत्तत्स्वरूपैवाद्वयश्रुतेः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336