Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 305
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद अद्वैत श्रुतेर्बाधोद्धारः] लघुचन्द्रिका । २९३ कारोक्तं व्याख्यानं परास्तम् । शब्दज्ञानं वाक्यार्थधीननकमित्यन्विताभिधानवादस्य तद्भूताधिकरणीयभाष्ये दूषितत्वेन तत्परतया भाप्यव्याख्यानस्यानौचित्यात् । ननु, द्वैतप्रत्यक्षादिनैरपेक्ष्येणाद्वैतवाक्यं द्वैतमिथ्यात्वबोधकं कुतो न भवतीति।तत्राह-अन्य एवेत्यादि । एकदेशमात्रपर्यालोचनेनार्थनिर्णये अतिप्रसङ्ग इति भावः । अङ्गेति । एकदेशेत्यर्थः । अन्यत्रेति । स्मृतिपादीयवार्तिक इत्यर्थः । उक्तमित्यनुषज्यते । अन्त्यपक्षेति । आद्यपक्षे प्रसञ्जकं प्रत्यक्षादिमानं श्रत्यादिना बलवता बाध्यत इत्यस्य पूर्वमेवोक्तत्वात् अन्त्यपक्षेत्याधुक्तम् । तत्रैव निषेधाधिकरण एव । प्रसिद्धिः प्रमा । निषेधप्रमामात्रोच्छेदेति । यत्रातिरात्रादिव्यक्तौ ग्रहणादिनिषेधः तत्र तत्प्रमाया असम्भवात् भ्रमरूपा तत्र तत्प्रसक्तिर्वाच्या। तथा च संशयरूपा सास्तीति तद्बाधेऽपि न प्रमाणबाध इति भावः । नान्तरिक्ष इत्यादि । अर्थवादाधिकरणे अन्त्ययोर्यथोक्तमिति सूत्रे 'नान्तरिक्ष' इत्यादिवाक्यं 'हिरण्यं निधाय चेतव्य'मित्यनेन विहितस्य हिरण्यस्य स्तुतिपरम् । स्तुत्युपपादकस्तु निषेधबोध इत्युक्तम् । तत्र यथा प्रसक्तस्य निषेधः, तथा प्रकृत इति भावः । न स्वप्रतियोगिकेति । स्वविषयेषु घटपटतद्भेदेषु ज्ञानान्तरेषु च स्वभेदमनवगाहमानेत्यर्थः । भिन्नव्यक्तिखेति । उत्तरवृत्तित्वेत्यर्थः । तेनानुव्यवसायसिद्धत्वादिपक्षयोः व्यक्तिभेदस्य पराभ्युपगतत्वेऽपि न क्षतिः । स्वस्याः स्वकीयायाः प्रतियोगिधीपूर्वकालीनायाः प्रतियोगिधीसमानकालीनायाश्च । स्वजन्यत्वानुपपत्तेः प्रतियोगिधीजन्यत्वानुपपत्तेः । तथा चेति । चरमधिया वभेदस्य कुत्राप्यग्रहणे चेत्यर्थः । सर्वाभेद इति । चरमधीर्ययोर्भेदं गृह्णाति, ताभ्यां तद्भेदेन च सह तस्या अभेदमद्वैतश्रुतिर्बोधयतीति सा धीः तादृशभेदविषयकत्वेन बोडुमशक्या नाद्वैतश्रुतिबाधकतया बुध्यते । एवञ्च पूर्वपूर्ववीरपीति श्रुतिस्सर्वाद्वैते पर्यवस्यतीति भावः । न ह्यभेद इत्यादि । ययोर्भेदश्चरमधीविषयः. ताभ्यां तद्भेदेन च तस्या अभेदे ज्ञाते बाध्यबाधकधियोस्तद्विषययोश्चाभेदे ज्ञाते बाध्यबाधकभावज्ञानं न सम्भवति । स्वस्य भेदज्ञानस्य स्वबाधकतया ज्ञानापत्तेरित्यर्थः । बाधकस्य स्वविषयेण सह भेदाज्ञाने भेदविशेषविषयकत्वेन तद्धटितप्रमात्वेन च तस्य ज्ञातुमशक्यतया बाध्यबाधकधियोरेकविषयकत्वग्रहेण च बाध्यवाधकभावज्ञानासम्भव इति भावः । ननु, कथमद्वैतज्ञानेन द्वैतं बाध्यते । द्वैतस्य स्खविषयैक्येन गृहीततया बाध्यत्वेन गृहीतुमशक्यत्वात् अद्वैतस्यापि स्वैक्येन गृहीततया तद्विषयकत्वेन तद्धटितप्रमात्वेन च वस्य गृहीतुमशक्यत्वादिति चेन्न । अद्वैतज्ञानस्योत्पत्तिक्षणे भेदानुपमर्दकल्पने तस्य द्वैतस्य च तथा. गृहीतुं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336