Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 304
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ अद्वतमञ्जरी । स्थापनं प्रकृतस्तोतं प्रत्यदृष्टद्वारा करणत्वेन विधीयत इति प्राप्ते, अग्नीषोमीये अग्नीषोमीयमित्यादिप्राकरणिकवाक्यविहितपुंस्त्वावरुद्धद्रव्यकत्वेन स्त्रीत्वस्य विंधानासम्भवात् पशुकामपदवैयर्थ्याच्च चित्रापदं न गुणविधायकम् । किं तु प्र. कृतयागानामेव पशुफलसम्बन्धविधिपरे वाक्ये तेषां नामधेयम् । इष्टयेत्यस्याध्याहारात् स्त्रीलिंगोपपत्तेः यागस्य चित्रत्वं दध्यादिनानाद्रव्यकयागसमुदायान्तर्गतत्वम् । एवं पञ्चदशानीत्यस्य 'स्तोमे डविधि'रित्यनेन स्तुतिसंख्यायां डप्रत्ययानुशासनात् पञ्चदशाज्यपदयोरसमस्तत्वेन मिथोऽनन्वयात् विशिष्टविध्यसम्भवादाज्यनामकस्तोत्रे संख्यामात्रं विधीयते । स्तोत्रञ्चाज्यैस्तुवते इति वाक्यै विहितमिति प्रथमचतुर्थे स्थितम् । 'अस्य लोकस्य का गति'रिति प्रश्नोत्तरे 'आकाश इति होवाचेति वाक्ये आकाश इति पदस्य भूताकाशे रूढत्वात् प्राथमिकत्वाच्च तद. नुरोधेन 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते'इत्यादिकञ्चरमोक्तं वाय्वादिभूतकारणत्वपरम् । तथा च भूताकाशमुद्गीथे संपाद्योपास्यमिति प्राप्ते, आकाशपदं ब्रह्मपरम् । ततोऽपि प्रथमं अस्य लोकस्य कागतिरित्यनेन सर्वलोककारणस्य पृष्टत्वात् प्रश्नानुसारेण सर्वपदस्यासंकोचादिति प्रथमप्रथमे शारीरके स्थितम् । तथा चोक्तं 'मानान्तराविरुद्धस्य शास्त्रार्थत्वमुक्तमिति । अत्रोत । शाबरभाष्यस्थवाक्ये इति शेषः । यद्यपि ज्ञातसम्बन्धस्य एकदेशदर्शनादेकदेशान्तरे असन्निकृष्टार्थे बुद्धिरनुमानमित्यनुमानलक्षणभाष्यव्याख्यानावसरे वार्तिके असन्निकृष्टवाचेत्याधुक्तम् । न तु शास्त्रलक्षणभाष्यव्याख्यानावसरे, तथापि तुल्यन्यायत्वात्तत्रापि तत् सम्बध्यते । असन्निकृष्टत्यनेन हि प्रमाकरणत्वं विवक्षितम् । प्रमायां शाब्दत्वं शब्दप्रमाणलक्षणेऽनुमितित्वमनुमानलक्षणे प्रविष्टमिति परं विशेषः इत्याशयेन शास्त्रलक्षणेऽपि तदुक्तमित्युक्तम् । ताद्रूप्येणेत्यादि। येन रूपेण वाक्यबोध्यता तेन रूपेण पूर्वप्रमितत्वं तद्विपरीतरूपेण प्रमितत्वञ्च जिहासितमभावविशेषणतया शब्दप्रमाणलक्षणे प्रविष्टमित्यर्थः । तथा च मानान्तरेणाप्रमितमबाधितं यत्तद्विषयवाक्यत्वं शास्त्रत्वमिति पर्यवसितम् । वस्तुतस्त्वभिहितान्वयवादस्य भाष्यवार्तिककारादिसम्मतत्वेनासन्निकृष्टेऽर्थे ज्ञानमिति भाप्ये ज्ञानपदं ज्ञानहेतुपरम् । सप्तम्यन्तयोर्न सामानाधिकरण्यम् । किं तु वैयधिकरण्यम् । तथा चासन्निकृष्टे वाक्यार्थे ज्ञापकं यत् शब्दज्ञानजन्यमर्थज्ञानं तच्छब्दप्रमाणमित्यर्थः । प्रत्ययान्तपदार्थज्ञानं शब्दजन्यं वाक्यार्थज्ञाने कारणमित्यभिहितान्वयवादस्य द्वितीयपरिच्छेदे स्पष्टं मूले विवेचयिष्यमाणत्वात् । एतेन शब्दज्ञानं प्रमाणं बोध्यम् । न त्वज्ञानं शब्दज्ञानजन्यं शब्दप्रमाणमिति काशिका For Private and Personal Use Only

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336