Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ अद्वैतमञ्चरी । तत्पूर्वमपि तदुत्पादात् । तथा च श्रवणं साक्षात्कारत्वे न प्रयोजकम् । किं तु . तददृष्टम् । तत्राह-वन्मत इति । अयोगेनेति । 'ब्रह्मज्ञानं भवत्वि'तच्छिायाः पू. वं 'ब्रह्मज्ञानमिष्टसाधन' मिति ज्ञानस्यावश्यमपेक्षणीयत्वात् तत्र च ब्रह्मणो ज्ञानविशेषणतया परोक्षज्ञानस्य पूर्वमेव सिद्धत्वज्ञानसम्भवेन नोक्तेच्छा सम्भवतीति भावः । सोपाधिब्रह्मज्ञानस्यापातब्रह्मज्ञानस्य च सिद्धत्वेन 'ब्रह्मणोऽन्याविषयको निश्चयो भवत्वि'ति इच्छाया एव वाच्यत्वेनापातब्रह्मज्ञानादपि तदुत्पत्तिसम्भवेन च नेयमनुपपत्तिरिति बोध्यम् । क्रत्वर्थनियमापूर्वस्येति । क्रतुं तकारकं वा उद्दिश्य विहितं यत्, तदीयनियमादृष्टस्येत्यर्थः । परमापूर्वेति । अवघातादिभिन्नाङ्गनियमादृष्टाभिप्रायेणेदम् । अवघातादेस्तृतीयाध्याये 'तेषामर्थन सम्बन्ध' इत्यधिकरणे आग्नेयाद्युत्पत्त्यपूर्वार्थत्वस्य स्थापितत्वेन परमापूर्वार्थत्वाभावात् । अन्यथा अवघातादेराज्यादिषु वारणासम्भवात् । पुरुषार्थेति । तृतीयचतुर्थे स्थितं 'सुवर्णं हिरण्यं धार्थ मुवर्ण एव भवति दुर्वर्णोऽस्य भ्रातृव्यो भवतीति वाक्ये अनारभ्याधीते शोभनवर्णहिरण्यधारणं क्रत्वर्थम , उत पुरुषार्थमिति संशये पुरुषार्थत्वे फलकल्पनागौरवात् अग्निहोत्रादिकर्मस्वङ्गम् । रात्रिसत्रादावार्थवादिकफलकल्पना युक्ता । न तु प्रकृते । धारणसंस्कृतमुवर्णस्य क्रतूपयोगसम्भवादिति प्राप्ते, नैवम् । क्रतुं प्रति हि नाहवनीयादेरिव धारणस्य विधिरस्ति । नापि जुह्वादेरिव सुवर्णस्य ऋतावव्यभिचरितसम्बन्धः । येन तस्य ऋतूपस्थापकतया क्रत्वपूर्वसाधनीभूतं तदुद्दिश्य हिरण्यधारणविधिसम्भवात् क्रत्वर्थत्वं शङ्कनीयम् । लोकेऽपिहि हिरण्यस्योपयोगसम्भवेन जुह्वादेरिव क्रत्वव्यभिचरितसम्बन्धाभावात् । तस्मादार्थवादिकं भ्रातृव्यदुवर्णत्वादिफलं पुरुषापेक्षितमुद्दिश्य हिरण्यधारणं विधीयते । 'सक्तून् जुहोती तिवद्वितीयाविभक्तिः करणतायां लाक्षणिकी । सोऽयं नियमविधिरुक्तफले साधनान्तरनिवृत्तिफलकसाधननियमस्य प्रत्यवायनिवृत्यर्थत्वात्। यथा प्रतिग्रहादेनियमविधिना साधनान्तरेण द्रव्यार्जने पुरुषस्य प्रत्यवायस्तथा साधनान्तरेग भ्रातृव्यदुवर्णतायावकोयसुवर्णतायाश्च करण इति । तथा च हिरण्यधारणादिनियमापूर्वस्य यथा परमापूर्वासाधनत्वं, तथा श्रवणादिनियमापूर्वस्येति भावः । साक्षात्कारान्येति । साक्षात्कारप्रतिबन्धकनिवर्त्यस्येत्यर्थः । तनेति । उक्तानिवृत्तिरूपफलेनेत्यर्थः । सर्वापक्षेति । सर्वकर्मणां तत्त्वसाक्षात्कारे अपेक्षा । 'विविदिषन्ति यज्ञेने त्यादिश्रुतेः 'कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तत ॥' इति स्मृतेश्च यथाश्वो रथचलनादावपेक्ष्यते । न तु लाङ्गलाकर्षणादौ । अनुपयुक्तत्वात् , तथा तत्त्वाज्ञाननिवृत्तिरूपे मोक्षे तत्त्वज्ञानैकसाध्ये कर्मणां नापेक्षेति सूत्रार्थः । ज्ञाने समाप्तिः ज्ञा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336