Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
अद्वैतमञ्जरी ।
नाधीनविरोधिप्रतिसन्धानाधीनया लक्षणाकल्पनया शुद्धब्रह्मपरत्वेन गृह्यमाणस्याद्वितीयादिवाक्यस्याद्वितीयत्वादिविशिष्टब्रह्मण्यवान्तरतात्पर्यस्य स्वीकारः । उक्तं हि संक्षेपशारीरके-'सामानाधिकरण्यमत्र भवति प्राथम्यभागान्वयः पश्चादेव विशेषणेतरतया पश्चाद्विरोधोद्भवः । उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिलक्षणया भवत्ययमिह ज्ञेयः क्रमस्सूरिभिः॥सामानाधिकरण्यमत्र पदयो यं तदीयार्थयोस्सम्बन्धस्तु विशेषणेतरतया ताभ्यां सहास्यात्मनः । सम्बन्धोऽप्यथ लक्ष्यलक्षणतया विज्ञेय एवं बुधैरेतान्यर्थपदानि बुद्धिपदवीमारोहणीयानि तु॥ पदयोस्सामानाधिकरण्यमर्थयोर्विशेषणविशेष्यभावसंपादकं तादात्म्यं च ज्ञेयम् । ततो विरोधप्रतिसन्धानात् शुद्धे लक्षणया धीरित्यर्थः । तथा च पदोपस्थाप्ययोविशिष्टयोरभेदबोधस्य द्वारत्वेनोक्तत्वात्तत्रावान्तरतात्पर्यमिति ज्ञापितम् । ननूक्तपद्यैरद्वितीयत्वादिविशिष्टे बमणि नावान्तरतात्पर्यसिद्धिः । तेषां ह्ययमर्थः । 'सत्यं ज्ञानमनन्तमेकमेवाद्वितीय' मित्यादिवाक्यस्थानां सत्यादिपदानां प्रथमतोऽत्यन्ताभिन्नार्थकत्वं निर्णीयते । एतानि स्वबोध्यार्थानामत्यन्ताभेदपराणि। समानविभक्तिकनानानामत्वात्। नीलो घट इत्यादिवत् । भिन्नयोस्तादात्म्यबोधने मुख्यसामानाधिकरण्यबाधात् अत्यन्ताभेदो ह्यखण्डैक्यरूपो मुख्यं सामानाधिकरण्यमिति संक्षेपशारीरक एव प्रपञ्चितम् । पश्चात् ब्रह्मपदार्थे उक्तवाक्यतात्पर्यविपयीभूतबोधविषये सत्याद्वितीयपदवाच्यार्थानां विशेषणत्वमुपलक्षणत्वं वेति ज्ञायते । प्रमेयविशिष्टं वाच्यविशिष्टमित्यादौ विशेषणत्वस्य — सोऽय' मित्यादौ चोपलक्षणत्वस्य वाच्यार्थेषु दृष्टत्वेनात्रापि तयोः सम्भावितत्वात् पश्चाविशेषणत्वे विरोधदर्शनेनोपलक्षणत्वस्यैव निर्णयेन लक्षणावृत्तिनिर्णय इति । तथा च विशिष्टयोरभेदे वा उपलक्षितस्वरूपे वा तात्पर्यमिति तात्पर्यसंशय एव द्वारतयोक्तः । न तु विशिष्टयोरभेदबोध इति तत्रावान्तरतात्पर्ये मानाभावस्तत्राह-तद्वारैवेति । सत्यादिवाक्येन शुद्धब्रह्मबोधे जन्यमाने ब्रह्मणि सत्यत्वाद्युपहिताभेदनिर्णयो द्वारम् । अन्यथा ब्रह्म सत्यं मिथ्या वेति संशयानिवृत्योक्तज्ञाने मिथ्याविषयकत्वरूपाप्रामाण्यसंशयेन तत्त्वमस्यादिवाक्यार्थबोधेऽपि तदुत्पादात्तस्याविद्यानिवर्तकत्वं न स्यात् । एवं ब्रह्म ज्ञानत्वोपहितं न वेति संशयानिवृत्त्या ब्रह्मस्वरूपमुखस्याप्रकाशमानत्वसंशयेन मोक्षस्यापुरुपार्थत्वसंशयेन मोक्षार्थप्रवृत्तिर्न स्यात्।एवमानन्दत्वसंशयानिवृत्यापि सा न स्यात् । एवमनन्तत्वसंशयानिवृत्त्यापि विनाशित्वादिसंशयेन सा न स्यात् । एवमद्वितीयत्वसंशयानिवृत्त्या जीवब्रह्मस्वरूपयोः संसारित्वैश्वर्यादिद्वैतविशिष्टयोरैक्यमनुपपन्नम् । विरुद्धधर्मयोगित्वप्रयुक्तभेदसंशयेन तयोरैक्यनिश्चये प्रामाण्यसंशयादिसम्भ
For Private and Personal Use Only

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336