Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 299
________________ www.kobatirth.org प्र०दे मिथ्यात्व श्रुत्युपपत्तिः ] लघुचन्द्रिका | Shri Mahavir Jain Aradhana Kendra 翻 नां सामथ्यैकल्पित विधिना अनुष्ठेयार्थज्ञानस्य च ऋत्वङ्गत्वात् शूद्रस्य चाहवनीयाद्यर्थज्ञानोपायाधानाध्ययनाभावात् क्रयादिना हवनीयादेः दृष्ट्यादिनार्थज्ञानस्य च तत्र कल्प्यत्वे गौरवात् 'वसन्ते ब्राह्मणोऽग्रीनादधीते' त्यादिविहिताधानादिसिद्धाहवनीयादिमत्तया क्लृप्तानां त्रैवर्णिकानामेवाधिकार इति षष्ठप्रथमे स्थितम् । वियत्वस्य निषेधबोधकत्वस्य । तात्त्विक सर्वमिथ्यात्वेति । तात्त्विकं यत् स्वसमानाधिकरणात्यन्ताभावस्वरूपं, तत्प्रतियोगित्वेत्यर्थः । ननु, प्रपञ्चस्स्वरूपेण निषिद्धस्तुच्छस्स्यात् । पारमार्थिकत्वेन निषिद्धश्चेत् ब्रह्मापि तथास्तु । निर्धर्मकत्वात् । अथ ब्रह्म तेन रूपेण मिथ्या । शुद्धस्वरूपेणैव सत्, तहिं प्रपञ्चोऽपि तथास्तु । तवाह - यथा चेति । स्वरूपतः आविद्यकत्वादिरूपेण । ब्रह्मणो ब्रह्मण एव । स्वरूपेण शुद्धरूपेण । अवस्तात् प्रथममिथ्यात्वविचारे । सत्त्वेन ज्ञेयत्वात् तुच्छवैलक्षण्यम् । पारमार्थिकत्वशून्यस्यापि प्रपञ्चस्य शुद्धरूपेण न सत्त्वम् । तस्य शुद्धरूपत्वाभावात् । भावेऽपि श्रुत्यनुमानाभ्यां तस्यैव मिथ्यात्वम् । न ब्रह्मणः । मानाभावात् साक्षित्वाचेत्याद्युक्तम् । विशेणयोरैक्यापातेनेति । वाच्यविशिष्टं प्रमेयविशिष्टमित्यादाविव 'सोऽयमित्यादौ तत्तेदन्तयोविंशेषणत्वे विशेष्यान्वयेिनान्वयनियमेनान्योन्यमभेदान्वयापातेनेत्यर्थः । सर्वत्र विशेषणयोरभेदबाधस्थले । अभेदपरेति । अभेदपरत्वयोग्येत्यर्थः । विशिष्टोपस्थापकसामनविभक्तिकपदद्वययुक्केति यावत् । लक्षितविशेष्यैक्येति । लक्षितशुद्धविशेष्यव्यक्तिमात्रेत्यर्थः । विशिष्टबोधकपदस्य विशिष्ट प्रतियोगिकान्वयबोधकत्वमावश्यकम् । मुख्यवृत्तिज्ञानसहकृतस्य तस्य तादृशान्वयबोधोपधायकत्वस्य क्लृप्तत्वात् । अन्यथा 'लोहितोष्णीषा ऋ त्विजः प्रचरन्ती' त्यादौ लौहित्यादेर्विशेषणता न स्यादुपलक्षणताया उपाधिताया वा वक्तुं शक्यत्वात् । अतो मुख्यां वृत्तिं त्यक्त्वैव वा विशेषणत्वं वाच्यम् । तत्रापि तात्पर्याविषयस्योपाधित्वेऽपि मानाभावादुपलक्षणत्वमेवावशिष्यते । तथा च शुद्धव्यक्तिमात्रधीपरत्वमिति भावः । एकता अत्यन्ताभेदः । विपरीतेति । जीवत्वेशत्वरूपविरुद्धविशेषणघटितेत्यर्थः । तथा चात्यन्ताभेदपरत्वान्यथानुपपत्त्या शुद्धलक्षणेति भावः । संस्थानविशेषस्य उत्तृणत्वादेः । स्वतो व्यावृत्तेति । घट इति ज्ञाने अन्याविशेषितरूपेण भासमानघटत्वादित्यर्थः । उपलक्ष्यत्वेति । उपस्थाप्यत्वेत्यर्थः । अनर्थेति । सद्वितीयत्वज्ञानेत्यर्थः । द्वितीयाभावद्वारकेति । द्वितीयाभाववत्त्वेन ब्रह्मोपस्थितिद्वारकलक्षणाज्ञानाधीनेत्यर्थः । अवान्तरतात्पर्येति । मन्त्रार्थवादादेर्देवताविग्रहादिबोधद्वारा स्तुत्यादिपरमतात्पर्यकस्य देवताविग्रहादाववान्तरतांत्पर्यस्य विवरणकारादिमत इवाद्वितीयत्वादिरूपेण ब्रह्मज्ञा A Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २८७

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336