Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८९
प्र०दे मिथ्यात्वश्रुत्युपपत्तिः] लघुचन्द्रिका वात्तस्याविद्यानिवर्तकत्वं न स्यात् । तस्मात् पश्चादेव विशेषणेतरतयेत्यस्य द्वावर्थों बोध्यौ । विशेणविशेष्यभावेन ब्रह्म सत्यमित्यादिरूपो द्वारीभूतो बोधः पश्चादित्येकः । सत्यादिवाक्यतात्पर्यविषयबोधे सत्यादिपदवाच्यतावच्छेदकं विशेषणमुपलक्षणं वा। द्वयोरपि सम्भावितत्वादिति प्रतिसन्धान पश्चादित्यपरः । एवं च सामानाधिकरण्यमित्यादेरयं फलितार्थः । सामानाधिकरण्यज्ञानं प्रथमोऽन्वयः । अन्वयपदं मुख्यतात्पर्यविषयधीप्रयोजकार्थकम् । पश्चाद्विशेषणेतरतयान्वयः, पश्चाद्विरोधज्ञानम् । सत्यत्वादिसंसर्गस्य मिथ्यात्वात् तद्धटितार्थस्याधिष्ठानत्वाभावात् शुद्धव्यक्तिरूपैक्यबोधकत्वस्य मुख्यसामानाधिकरण्यत्वाञ्च संसर्गघटितत्वेनोक्तवाक्यतात्पर्यमुपपद्यत इत्याकारमुक्तान्वयविरोधज्ञानमिति ध्येयम् । द्वितीयाभावसिद्धीति । द्वितीयाभावरूपद्वितीयसिध्या अद्वैतहानीत्यर्थः । क्षेपिष्ठत्वेति । अतिक्षिप्रत्वेत्यर्थः । वपात्खननादाविति । ‘स प्रजापतिरात्मनो वपामुदक्खिददि'त्यादिवाक्यार्थे वपोत्खननादावित्यर्थः । ग्रहैकत्वादाविति । दशापवित्रेण ग्रहं सम्मार्टीत्यादौ ग्रहमुद्दिश्य दशापवित्रेण सम्मार्जनस्य विधौ ग्रहत्वादिमात्रमुद्देश्यविशेषणतया विवक्षितम् । न तु ग्रहैकत्वादिकम् । यावता विशेषणेन विना नोद्देश्यं पर्यवस्यति । तावत एव विवक्षितत्वात् । उद्देश्यं हि क्रियां प्रति प्रधानं तत्पर्यवसितं सन्नेतरेण विशेषणेन नियन्तुं शक्यते । विधेयं तु गुणीभूतं श्रुतेन सर्वेण विशेषणतया नियम्यत एव । तदुक्तं वार्तिके- 'प्रधानक्रिया कारकाणि पिण्डीकरो'तीति । एवं 'यम्योमयं हविरातिमार्छत् ऐन्द्रं पञ्चशरावमोदनं निवपे'दित्यादौ निमित्तीभूतहविराादौ नोमयत्वादिकं विवक्षितमिति भावः । स्वबोधितं स्वेन बोध्यमानम् । अतात्पर्यात् मुख्यतात्पर्याभावात् । न क्षतिः न मानविरोधक्षतिः । तथा च वपोत्खननादिवाक्यवत् न मुख्यार्थमहातात्पर्यकमद्वितीयपदमिति भावः । नन्वित्यादि। ग्रहणाग्रहणवाक्याभ्यां ग्रहणस्यैकस्यैव विधिनिषेधयोः स्वीकारात् एकेनेत्युक्तम् । एकेनैव वाक्येन निषेधस्य प्राप्तिः निषेध्यस्य निषेध३चोपपद्यत एवेत्येकस्येत्युक्तम् । एकेन वाक्येनैकस्य प्राप्तिनिषेधयोः स्वीकारे तु क्रमेण तयोस्स्वीकारे विरम्य व्यापारापत्तिः । युगपत्स्वीकारे निषेधार्थ वि. धेयस्यानुवादायोगः । अनुवादस्य प्राप्तिपूर्वकत्वात् सदुभयत्र तात्पर्यासम्भवेनावृत्तिकल्पनापत्तेवाक्यभेदापत्तिः । किं चैकस्य वाक्यस्य प्राप्तिनिषेधयोस्वतन्त्रतात्पर्यास्वीकारे तयोर्वैयर्थ्यम् । न हि निषेधार्थमेव किञ्चिद्विधीयत इति कत्रापि दृष्टमिति भावः । रूपभेदेनेति । स्वतन्त्रतात्पर्यभेदस्वीकारे सत्येव विरम्य व्यापारादिकं दोषः । 'इन्द्रो वृत्राय वज्रमुदयच्छ' दित्यादौ स्वार्थं विधाय तद्वारा स्तु
३७
For Private and Personal Use Only

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336