Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 292
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir २८० त्वात् इष्यते तथा स्वरूपेण सिद्धोऽप्यात्मा कल्पितेन बन्धनाशत्वावच्छेदको क्तरूपेणासिद्धतया ज्ञायमानत्वादिष्यत इति भावात् । चरमवृत्त्यादेर्बन्धनाशत्वपक्षेऽपि दृष्टान्तो नानुपपन्नः । यथेोक्तरूपेण कल्पिते चामीकरे इच्छा, तथा कल्पितबन्धप्रतियोगिकनाशत्वरूपेण कल्पिते चरमवृत्त्यादाविति भावात् । ननु, ज्ञानोपहितात्मनोऽज्ञाननाशत्वे ज्ञानादज्ञाननाशोत्पत्तिर्न सम्भवति । युगपदेव ज्ञानतदुपहितात्मनोरुत्पादात् । तथा च ' ज्ञात्वा देवं मुच्यत' इत्यादिश्रुतिविरोधः । तत्राह - अतिरिक्तेत्यादि । अनिर्वचनीयेति । अतिरिक्ताया अपि निवृत्ते र्भुज्यमानादृष्टासमानकालीनेन तत्त्वज्ञानेन तत्संस्कारेण वोच्छेद्यत्वेन ज्ञाननिवर्त्य - त्वादनिर्वाच्यत्वम् । ननु तत्त्वज्ञानान्तरस्यानुत्पादेऽपि भोगसमाप्तौ कैवल्यसम्भवादुक्तनिवृत्तेः ज्ञाननिवर्त्यत्वासम्भवेनानिर्वाच्यत्वासम्भवः । संस्कारद्वारा ज्ञाननिवर्त्यत्वं तु न मिथ्यात्वम् । साक्षाज्ज्ञानोच्छेद्यत्वस्यैव तद्रूपत्वात् । तत्राहपञ्चममकारेति । ज्ञानानुच्छेद्येत्यर्थः । तथा च ज्ञानानुच्छेद्यत्वेऽपि चिद्भास्यत्वादेव तस्य मिथ्यात्वम् । संस्कारद्वारकसाधारणं ज्ञानोच्छेद्यत्वं वा मिथ्यात्वम् । ननु, ज्ञानमेवाज्ञाननाशोऽस्तु अतिरिक्ततत्कल्पने गौरवात्तत्रेष्टापत्तिमाह-- चरमवृत्तिरिति । न कापीति । यद्यपि प्रथमपक्ष एव बन्धनाशः सुखरूपत्वेन पुरुषार्थः । न त्वन्यपक्षेषु, तथापि सुखाभिव्यक्तिरूपत्वेनाप्यनात्मरूपनिवृत्तेरपि पुरुषार्थता । अज्ञाननिवृत्तिर्हि स्वप्रकाश सुखरूपात्मनोऽभिव्यक्तिः । ननु, सुखमेव पुरुषार्थः । न तु तदभिव्यक्तिः । यदवगतं सदवश्यमिष्यते, स पुरुषार्थ इति तार्किकोक्तेरिति चेत् सत्यम् । परं तु मन्मते केवलसुखस्वरूपस्यात्मनः सुखत्वमभिव्यक्त्युपहितत्वम् न तु तत्स्वरूपत्वम् । तत्स्वरूपस्य सदा सिद्धत्वेनावृतत्वेन चेच्छायोग्यत्वाभावादुक्तो - पहितत्वविशिष्टात्मन एव सुखपदवाच्यत्वाच्च । लोकेऽपि चन्दनादियोगजन्यमनोवृत्युपहितात्मन एव सुखपदेन व्यवहारात् । तथा चोक्तसुखत्वावशिष्टं मन्मतेऽपि पुरुषार्थः । तच्चावगतमवश्यमिष्यते । एवमात्मनः स्वरूपाभिव्यक्तेरपि पुरुषार्थत्वमव्याहतम् । अभिव्यक्तात्मन इवात्माभिव्यक्तेरपि सुखपदवाच्यत्वादिच्छायोग्यत्वाच्च । य दवगतमवश्यमिष्यत इति पुरुषार्यलक्षणसत्त्वात् । जातिरूपं वा सुखत्वमभिव्यतात्मनि आत्माभिव्यक्तौ च स्वीक्रियते । अत एव कल्पितव्यक्तिभेदेन ज्ञानत्वानन्दत्वादिकम् । जातिरित्यनुपदमेव मूल उक्तम् । अभिव्यक्त पूर्णानन्दपूर्णानन्दाभिव्यक्त्योरस्तु सर्वदुःखविरोधित्वेन परमपुरुषार्थत्वमिति भावः । निवृत्तिः बा - धः । निवृत्त्ययोगात् बाधायोगात् । श्रवणादिनियमादृष्टमिति । श्रवणाद्याश्रितनियमजन्यादृष्टमित्यर्थः । अवघातादिनियमविधिस्थले हि वैतुप्यादिविशिष्ट - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336