Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 291
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे प्रतिकूलतर्क निराकरणम् ] लघुचन्द्रिका | एवं पक्षान्तरेऽपीति भावः । चामीकरप्राप्तये चामीकरसम्बन्धाय । तस्य सिद्धत्वेऽप्यसिद्धत्वभ्रमेण तत्रेच्छेति ज्ञापनाय कण्ठगतत्वविस्मृतत्वयोरुक्तिः । भ्रमबाधकज्ञानो"त्पत्तये बन्धनाशाय । तादृशज्ञानस्योत्पत्तिर्यस्मै इति व्युत्पत्तिसम्भवात् । चरमवृत्तिरेव बन्धनाश इति पक्षे तु यथाश्रुत एवार्थः । ननु, 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।' इति वार्तिकोक्त्या तत्वज्ञानोपलक्षितस्यात्मनोऽज्ञाननिवृत्तित्वम् । अज्ञानमेव च बन्धः । 'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । ' इति वार्तिकोः । तथा चोक्तात्मनोऽज्ञाननाशत्वे तस्य ज्ञानपूर्वमपि सत्त्वेन सिद्धत्वनिश्चयात् तदुद्देशेन प्रवृत्त्यनुपपत्तिः । न च ज्ञानोपहितात्मोद्देशेनैव प्रवृत्तिः । तादृशात्मनोसिद्धत्वनिश्चयादिति वाच्यम् । ज्ञानोपलक्षितात्मनोऽज्ञाननाशत्वोक्तिरूपवार्तिकविरोधात्तत्राह - सा चेति । घटनाशेति । घटावयवविभागाद्युपहितस्य घटावयवस्य निप्पत्तिर्घटनाशः । ऊहनीयेति । बन्धनाशार्थत्वेनोहनीयेत्यर्थः । तथा च ज्ञानोपहितात्मस्वरूप निष्पत्त्यर्थं मननश्रवणयोः प्रवृत्तिः । उक्तस्वरूपस्याज्ञाननाशत्वस्वीकारात् वार्तिके ज्ञानोपलक्षितात्मनोऽज्ञाननाशत्वोक्तिस्तु ज्ञाने नष्टेऽपि ज्ञानोत्तरमनःपरिमाणोपहितस्याप्यात्मनोऽज्ञाननाशत्वसूचनाय । आत्मस्वरूपमात्रस्य तन्नाशत्वे ज्ञानात्पूर्वमप्यज्ञाननाशव्यवहारापत्तेर्ज्ञातित्वोपलक्षितत्वोक्तिवैयर्थ्यापत्तेश्च । अथैवं चर For Private and Personal Use Only २७९ मस्य मनःपरिणामस्य नाशः क इति चेत् न कोऽपि । तर्हि स क्व गत इति चेत् नायमस्मान् प्रत्येव । तार्किकादीन् प्रत्यपि तत्सम्भवात् । यद्यपि हि तेषां मते दुःखस्य पापस्य वा चरमो नाशो मोक्ष इत्युच्यते, तथापि तादृशदुःखादि क्व गतमिति पर्यनुयोगस्तान प्रत्यस्त्येव । सांख्यादिमतेऽपि दुग्धादेर्दध्यादिपरिणामकाले दुग्धादि क्व गतमिति पर्यनुयोगः । अथ यथा घटादिकं कुत आगतमिति न पर्यनुयोगः । यत्क्षणे आगतं तदव्यवहितपूर्वक्षणे दण्डादिसामग्रीसम्बन्धादेवागतमित्युत्तरात् । तथा क्व गतमित्यपि नसः । नाशजनक सामग्रीमत्क्षणस्य प्रतियोग्यधिकरणकालपूर्वत्वाभावनियमान्नाशक्षणे प्रतियोगी नास्त्येवेति स्वीक्रियते । न तु कुत्रापि गत इत्युत्तरादिति तार्किकादिभिर्वाच्यमिति चेत् तर्हि प्रमायाः स्वसमानविषयक ज्ञानाधिकरणकालपूर्वत्वाभावनियमवच्चरमस्य तत्त्वज्ञानोत्तरमनः परिणामस्य स्वपरिणाम्यज्ञानतत्प्रयुक्तदृश्याधिकरणकालपूर्वत्वाभावनियमस्यास्माभिः स्वीकारादस्मान्प्रत्यपि न पर्यनुयोगः । तस्माद्यथा विभक्तरूपेणासिद्धत्वात् घटावयवे सिद्धेऽपीच्छा, तथा स्वरूपेण सिद्वेऽप्यात्मनि ज्ञानोपहितरूपेणासिद्धत्वादिच्छा । न चैवमुक्तरूपेण साध्यत्वात् बन्धनाशस्य सिद्धचामीकरस्य तद्दृष्टान्ततया पूर्वमुक्तिर्विरुध्येतेति वाच्यम् । यथा चामीकरं स्वरूपेण सिद्धमपि कल्पितेन कुण्ठा वृत्तित्वेनासिद्धतया ज्ञायमान

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336