Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्र०दे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका । Acharya Shri Kailassagarsuri Gyanmandir २७७ यदपि विषयजन्यप्रत्यक्षत्वं प्रमात्वव्याप्यमिति । तदपि न । अनुभूयमानरक्तत्वादेः स्फटिकादावारोपे व्यभिचारात् । कुतो नेति । ईक्षणाभावात् आकाशादिसृष्टौ विलम्बः । ततश्च देहादिसृष्टौ विलम्ब इति भावः । ननु, कुत ईक्षणोत्पत्तौ विलम्ब इति चेत् । परेषां मतेऽप्याद्यकार्यस्योत्पत्तौ कुतो विलम्बः । अथ तार्किकाणां व्यणुकोत्पादकसंयोगः परमाणुक्रियाविशेषादेव । साङ्ख्यानां सत्त्वादिगुणपरिणामविशेषादेव महत्तत्वोत्पत्तिः । तथा च प्रलये आद्यकार्यविलम्बः तदभावादिति चत् तर्हि ममापि तथैव समाधानम् । यथा हि साङ्ख्यानां मते प्रलये सत्त्वादिगुणानां परस्परापेक्षयोद्रिक्तपरिणामस्य सृष्टिप्रयोजकस्यावीकारेऽपि परस्परापेक्षया समाना एव परिणामाः स्वीक्रियन्ते , तथा मन्मतेऽपि । एतावांस्तु विशेषः । यत्तैः क्षणिकाः परिणामास्वीक्रियन्ते । 'प्रतिक्षणपरिणामिनो हि भावा ऋते चिच्छते' रिति तत्सिद्धान्तात् । अस्माभिस्तु क्षणद्वयस्थायिनस्ते स्वीक्रियन्ते । उत्तरपरिणामस्य पूर्वपरिणामनाशकत्वात् । तात्त्विकत्वादिति । प्रामाण्यापात इत्यग्रेऽन्वयः । प्रामाण्यं तात्त्विकप्रामाण्यम् । ननु, दोषाणामेव प्रतिबन्धकत्वात् कथं तात्त्विकप्रामाण्याश्रयस्योत्पत्तिः । तत्राह-अतात्त्विकेनेति।तात्विककायेति। तात्त्विकप्रामाण्याश्रयेत्यर्थः । तेन तस्यायुक्तत्वे दृष्टान्तमाह-बौद्धेनेति । दु. एतया दोपजन्यतया । समसत्ताकत्वेनेति । ननु, स्वसमसत्ताकेऽपि ब्रह्मज्ञाने अविद्यादोषो नाप्रामाण्यप्रयोजकः । मिथ्यात्वात् । अतोऽद्वैतज्ञानेऽपि तथा । न च ब्रह्मज्ञाने अविद्याया उपादानत्वेऽपि भ्रमत्वेन नाविद्यादिदोषनिमित्तकारणतानिरूपितकार्यतेति सा न तथेति वाच्यम् । न ह्युक्तकार्यता भ्रमत्वेन प्रपञ्चज्ञानेऽप्यस्ति । किं तु कार्यत्वेनाविद्योपादानतानिरूपितकार्यतैवेत्यत आह-कार्यकारणभावनियमेनेति । तथा च यत्र विषयेऽविद्योपादानं तस्यैव ज्ञाने अप्रामाण्यप्रयोजिकेति न ब्रह्मज्ञाने सा तथेति भावः । सत्यतापातः तात्त्विकप्रामाण्यादिरूपस्य भ्रमवैलक्षण्यस्यापातः । ननु, विद्यमानस्याप्यविद्यादोषस्य मिथ्यात्वेन तात्त्विकस्य तदभावस्य सत्त्वात कुतो न तात्विकप्रामाण्यापातः । तस्य ब्रह्मज्ञाने तत्प्रयोजकतया क्लप्तत्वात् । तत्राह-कारणीभूतेति । दोपाभावे प्रतियोगिव्यधिकरणदोषामावे । तथा च नोक्ताभावः ब्रह्मज्ञाने उक्तप्रयोजकत्वेन क्लुप्तः । आवयोः प्रामाण्यस्य स्वतस्त्वेन ब्रह्मज्ञाने प्रामाण्यस्योक्तप्रयोजकं विनापि तात्त्विकत्वसम्भवात् । न हि तदपवादकं बाधकज्ञानं तत्रास्ति । उक्ताभावमात्रस्य तात्त्विकप्रामाण्ये प्रयोजकत्वे काचादिदोषस्य मिथ्यात्वेन तत्कालेऽपि तदभावस्य तात्त्विकस्य सत्त्वेनोक्तदोषजन्येऽप्युक्तप्रामाण्या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336