Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ अद्वैतमञ्जरी । म्यापन्नं ब्रह्मक्षतापोऽसृजत इत्यर्थः । एवं 'आकाशाद्वायु'रित्यादिश्रुतौ तस्माद्वा एतस्मादात्मन इत्यनुषज्यते। तेनाकाशादिभावापन्नात् ब्रह्मणो वायुरित्याद्यर्थ इति भावः । उपासनेत्युपलक्षणम् । कर्मानुष्ठानकाले इत्यपि बोध्यम् । अभ्युपगमेनेति। उक्त हि 'तदनन्यत्वमारम्भणशब्दादिभ्य'इत्यधिकरणभाष्ये-अभ्युपगम्य चेमं भोक्तृभोग्यलक्षणं व्यावहारिकं विभागं स्याल्लोकव'दिति परिहार उक्तः । न त्वयं विभागः परमार्थतोऽस्ती ति । संक्षेपशारीरकेप्युक्तम्-, 'आरम्भसंहतिविकारविवर्तवादानाश्रित्य वादिजनता खलु वावदीति । आरम्भसंहतिमते परिढत्य वादौ द्वावत्र सङ्ग्रहपदं नयते मुनीन्द्रः ॥ तत्रापि पूर्वमुपगम्य विकारवादं भोक्त्रादिसूत्रमवतार्य विरोधनुत्त्यै । प्रावर्तत व्यवहृतेः परिरक्षणाय कर्मादिगोचरविधेरुपयोगहेतोः ॥ विवर्तवादस्य हि पूर्वभूमिः वेदान्तवादे परिणामवादः ॥ इत्यादि । विधाबुपयोगेति । 'विधिषु श्चाद्धोऽधिकारीति न्यायेन विवर्तवादालम्बने प्रपञ्चमिथ्यात्वे निश्चिते विहिते प्रवृत्त्यसम्भवात् । परिणामवादस्यैव विहितप्रवृत्त्युपयोग इति भावः । 'भोक्तापत्ते रिति । भोग्यानां भोक्तृतादात्म्यापत्तिः । भोक्त्रभिन्नब्रह्माभिन्नत्वात् । एवं भोक्तुरपि भो. ग्याभेदापत्तिः । तथा च भोक्तृभोग्यविभागो न स्यादिति चेत्, तदा साप्यापत्तिः व्याख्यातेति । पूर्वसूत्रस्थस्य व्याख्याता इत्यस्य विभक्तिवचनयोर्विपरिणामेनानुषङ्गः । विरुद्धतया ख्यातेति तदर्थः । यतो लोके समुद्राभिन्नयोरपि तरङ्गफेनयोर्यथा नाभेदस्तथा ब्रह्माभिन्नयोरपि भोक्तृभोग्ययोरित्यर्थः । तदनन्यत्वमिति । तस्य ब्रह्मणोऽनन्यत्वं द्वितीयशून्यत्वम् । 'वाचारम्भणं विकारो नामधे. य'मित्यादिश्रुतिभ्यः । मायाविन इत्यादि । यथा मायाविना सृज्यमाने नगरे दृश्यमानानां पुरुषाणामुत्कर्षापकर्षादिकं तद्वैषम्यादिकं नापादयति । तथेशसृष्टानामित्यर्थः । स्वप्रतिबिम्बेत्यनेनेशजीवयोंबिम्बत्वप्रतिबिम्बत्वाभ्यां कल्पितत्वसूचनेन सुतरामविरोध इति सूचितम् । अविद्योपहितेति । अविद्यायां बिम्बीभूत इत्यर्थः । अन्तःकरणोपहितेति । अन्तःकरणतत्संस्कारान्यतरोपहिताज्ञानप्रतिबिम्बितेत्यर्थः । पक्षेऽपीति । दृष्टिसृष्टिपले जीवस्याविद्यामात्रोपाधिकत्वेनानादित्वात्तस्यैव जगदुपादानत्वादीशोऽपि भ्रमयितृत्वादिविशिष्ट एव तदुपादानक इति भावः । मरणायेति । महाभयोत्पादनद्वारेति शेषः । भ्रमाजनकत्वादिति वस्तुतो भ्रमजनकत्वेऽपि न दोषः । पूर्वपूर्वकल्पसिद्धस्य जीवभ्रमस्योत्तरोत्तरकल्पे श्रुत्यानुवादेनाद्वैतप्रतिपादनसम्भवादिति ध्येयम् । स्पुरणात् ईशं प्रति स्पुरणात् । भ्रान्तखेति । भ्रान्तत्वव्यवहारेत्यर्थः । तथा च भ्रान्तत्वव्यवहारस्य मिथ्याविषयकत्वेनागृह्यमाणभ्रमत्वविषयकत्वान्नेशो भ्रान्तत्वेन जीवैर्व्यवयित इति भावः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336