Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ अद्वैतमञ्जरी । व्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्य ' इति सूत्र इ. त्यर्थः । प्रणिधानं मनोधारणं यस्मिन् विषये तद्गतविशेषस्य स्मारकम् । अभ्यासः ज्ञानावृत्तिकृतः संस्कारः शीघ्र स्मारकः । लिङ्गं व्याप्यव्यापके । लक्षणं व्यावर्त्यव्यावर्तके । सादृश्यं सदृशाः । परिग्रहः स्वसामिनौ । आश्रयाश्रितौ पोषकपोप्यौ । सम्बन्धः शिष्याचार्यादयः । आनन्तर्य पूर्वापरकालानुष्ठेयाः स्नानतर्पणादयः । वियोगः वियुक्ताः । एककार्यम् एककार्याः । अतिशयः आश्रयान्यूनाधिकाः । विरोधो विरुद्धाः । व्यवधानमसिकोशादयः आच्छाद्याच्छादकाः । प्राप्तिः प्राप्यप्रापकौ । निबन्धः एकवाक्योक्ताः प्रमाणप्रमेयादयः । एते मिथः स्मारकाः । सुखदुःखे अनुभूयमाने स्वमूलस्य । इच्छा स्नेहः । अर्थित्वमप्राप्तेच्छा। रागो लब्धविषये बुभुक्षा । एते द्वेषश्च यत्र विषये जातास्तस्य मुत्स्स्मारकाः । भयं यतो जातं तस्य । धर्मः गतजन्मादेः । अधर्मो यस्य ज्ञानाहुःखं जायते तस्य । निमित्तमुन्मादादिकम् । सूत्रे स्मृतिरिति शेषः । गुणावयवसामान्येति । गुणद्वारा अवयवद्वारा वा सादृश्येत्यर्थः । कारणान्तरं सादृश्यनिरपेक्षदोषादिकारणम् । घटादीनामिवेति । तथा च विषयविधया अविद्यायास्तत्र जनकत्वादेवाविद्यारूपदोषजन्यत्वमप्रमाण्यप्रयोजकं स्थितमेव । न हि भ्रमत्वेन दोषजन्यत्वं तत्प्रयोजकम् । तत्तदननुगतदोषकार्यत्वस्य भ्रमत्वाविशेषिततत्तद्वचक्तित्वादिनैवावच्छेदात् । अपि तु भ्रवत्वव्याप्यरूपेण दोषजन्यत्वं तत्त्रयोजकम् । तथा चाविद्यारूपविषयजन्यवृत्तिज्ञानमात्रनिष्ठधर्मस्योक्तविषयजन्यतावच्छेदकस्यापि भ्रमत्वव्याप्यत्वेन तद्रूपेण जन्यत्वमपि तथा । न च विषयजन्यप्रत्यक्षस्येन्द्रियसन्निकर्षजन्यत्वमावश्यकम् । तदभावान्न विषयजन्यत्वमिति वाच्यम् । इन्द्रियजन्यप्रत्यक्षस्यैवोक्तनियमात् । तार्किकादिनव्यमतेऽ पि सुखादिप्रत्यक्षस्येन्द्रियाजन्यत्वस्वीकाराच्च । साधिष्ठानकत्वेति । यस्य ज्ञानादध्यासोच्छेदस्तत्तादात्म्येत्यर्थः । उपपद्यत इति । ननु, बाधितविषयकत्वेन भ्रमत्वं नित्यज्ञानस्य दोषानन्यत्वेऽपीत्ययुक्तम् । गुणाप्रयुक्तत्वेन प्रमात्वस्येव दोषाप्रयुक्तत्वेन भ्रमत्वस्यापि स्वतस्त्वापत्तेः । अत एव शाबरवाक्ये दुष्टकरणजन्यत्वं मिथ्यात्वधीश्च समुच्चितमुभयमप्रमात्वप्रयोजकमित्यर्थ इति चेन्न । भावान. वबोधात् । यथा हि तार्किकमते जन्यप्रमात्वं गुणजन्यतावच्छेदकम् । न तु प्र. मात्वमात्रम् । तस्य नित्यसाधारण्यात् । तथा जन्यभ्रमत्वमेव दोषजन्यतावच्छे. दकम् । न च तावता तस्य स्वतस्त्वम् । शाबरवाक्यं तु नोभयस्याप्रमात्वप्रयोजकत्वपरम् । चरमस्यैव तत्सम्भवात् । आद्यं तु जन्यभ्रमत्वस्य दोषजन्यतावच्छेदक. त्वज्ञापनाय । तदपि भ्रमत्वे बौद्धसम्मतस्य स्वतस्त्वस्य निरासायेति बोध्यम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336