Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 293
________________ www.kobatirth.org प्र० दे प्रतिकूलतर्क निराकरणम् ] लघुचन्द्रिका Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only I व्रीह्मांद्यर्थमवघातादिकं न विधीयते । तस्य प्राप्तत्वात् । किं तु अवघाताद्याश्रितो नियमः । अत एव कृष्णलयागादाववघातादिबाधात्तदाश्रितनियमस्य नानुष्ठा नम् । अथवा नियमतात्पर्यकविधिविषयश्रवणादिजन्यादृष्टमित्यर्थः । अवघातादेहि वैतुष्यादिविशिष्टे साधनतया प्रापकत्वमाक्षेपस्य यद्यप्यस्ति तथापि तत्प्रवृत्तेः पूर्वमेव प्रत्यक्षविधिस्तत्प्रापकस्स्वीक्रियते । प्रयोजनसत्त्वात् । आक्षेपप्रवृत्तिप्रतिबन्धेन दलनादिनिवृत्त्या अवघातादिनियमो हि प्रयोजनम् । सोऽपि न व्यर्थः । नियमप्रत्ययान्यथानुपपत्त्या अवघातादेर्यागी यापूर्वसाधनापूर्वविशिष्टत्रीह्याद्युद्देशेन विध्यन्तरकल्पनात् यागीयापूर्वे अवघातादिजन्यापूर्वसाध्यत्वप्रत्ययस्य फलत्वात् । अत एवाघातादौ तज्जन्यापूर्वस्य पश्चात्कल्प्यत्वेन न प्रयोजकत्वम् । किं तु वैतुप्यादिदृष्टफलस्येति तदभावात् कृष्णलयागादाववघातादिलोपः । अप्रसक्त्येति मुक्तौ तु तादृशोपायान्तरं प्रसक्तमिति पराभिमानः । दृशिनेति । साक्षात्कारस्यैव निदिध्यासनप्रयोजनत्वेन तदुद्देशेनैव तद्विधानात् श्रवणमननयोरपि तथा वाच्यम् । अन्यथा परोक्षज्ञानबोधनाय हशेरावृत्तिप्रसङ्गात् एकप्रतिसन्धानेनार्थद्वयबोधनासम्भवात् । सकृदुच्चरितरशब्दस्सकदेवार्थं बोधयतीति व्युत्पत्तः । ननु, 'आत्मा वारे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यादा मनननिदिध्यासनसहितं श्रवणमात्मनिश्चयाय विधीयते । दृशेश्राक्षुषज्ञानवाचित्वेsपि प्रकृते निश्चये लाक्षिणकत्वात् । निश्चयत्वञ्चासम्भावनाविपरीत भावनाप्रयुताप्रामाण्यधीरहितधीत्वम् । तथा चासम्भावनानिवृत्तिद्वारा मननस्य विपरीतभावनानिवृत्तिद्वारा निदिध्यासनस्य प्रधानीभूतश्रवणफलनिश्चयोपकारकत्वात् श्रवणस्यापि तात्पर्यनिश्चयद्वारकतात्पर्यसंशयनिवृत्तिद्वारा निश्वयसाधनत्वात् - शिना निश्चयत्वेनैव ज्ञानमुद्दिश्यते । तथा च साक्षात्कारत्वमेव श्रवणादिनियमादृष्टप्रयुक्तम् । तच्च साक्षात्कारत्वेन प्रतीयमानत्वं परोक्षत्वेनाप्रतीयमानत्वञ्च । उक्तं हि विवरणे - ' आपरोक्ष्यनिश्चयानुकूलस्तक मननम् । अपरोक्ष्यधीविरोधितर्कों निदिध्यासन' मिति । मनननिदिध्यासनस्त्वरूपयोर्दृष्टविधयोक्तसाक्षात्कारत्वप्रयोजकत्वेऽपि तदीयनियमादृष्टस्य उक्तसाक्षात्कारत्वप्रतिबन्धकस्यासम्भावनादिजनकस्य च पापस्य निवर्तकतयोपयोगः । एवं श्रवणनियमादृष्टस्यापि तात्पर्य - संशयादिजनकस्य उक्तसाक्षात्कारत्व प्रतिबन्धकस्य च पापस्य निवर्तकतयोपयोगः । अपरोक्षत्वेना निश्चितादप्रमात्वेन गृह्यमाणाद्वा नाविद्यानिवृत्तिः । अतोऽतादृशज्ञानं तया अपेक्ष्यते । तच्च श्रवणादिनियमादृष्टजन्यं तत्त्वज्ञानस्वरूपम् । तस्यापरोक्षात्मविषयकज्ञानत्वरूपमपरोक्षत्वञ्च वाक्यादिकारणप्रयुक्तं श्रवणादिकं नापेक्षते । ३६ २८१ "

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336