Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra २५४ www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir " 1 गानुकूलव्यापारे प्रवृत्तिर्न स्यात् । न च स्मरणसंशयाद्यप्रमाणवृत्त्यैव सात •वाच्यम् । उक्तघटस्याननुभूतत्वस्थले स्मरणासम्भवात् । ' घटोऽज्ञातो न वे 'ति संशयोत्तरं चौचित्यावर्जितः अज्ञातघटेन्द्रियसंयोगादेस्संशय एव स्यात् । न तु निश्चय इति भावः । ननु, अप्रमाणवृत्तिसंशयादिनोक्तघटादिग्रहणासम्भवेऽप्यविद्यावृत्तिस्तद्राहिकास्तु । तत्राह - तद्विलक्षणमित्यादि । वृत्तेर्जडत्वेन मिथ्यात्वेन च मोक्षानन्वयित्वात् अप्रकाशमानसुखरूपस्य मोक्षस्या पुरुषार्थत्वाच्च स्वप्रकाशचिद्रूपत्वं मोक्षस्यावश्यकम् । तथा च तस्य नित्यत्वादेकत्वाच्च वृत्युपहितः स एव ज्ञानम् । अन्यथा वृत्तेर्ज्ञानत्वे ' तदा ज्ञात' मिदानीं ज्ञातं ' घटो ज्ञातः 'पटो ज्ञात' इत्यादिप्रत्ययानामनुगतैकविषयकत्वमानुभाविकमपलप्येत । वृत्तेरपि स्वप्रकाशत्वे कल्प्यमाने गौरवञ्चापद्येत । न च चितः स्वप्रकाशत्वं तत्तद्देहादी संशयाद्ययोग्यत्वम् । तदपि देहादावनावृतत्वम् | चितो हि पूर्णानन्दरूपेणावृतत्वेऽपि स्फुरण रूपेणानावृतत्वमेव । अन्यथा 'अहं स्फुरामि न वा' 'मनस्फुरति न वे 'ति 'न स्फुरती 'ति वा संशयविपर्यासापत्तेः । तथा च वृत्तिज्ञानस्यापि तादृशत्वप्रकाशत्वमस्त्येवेति कथं गौरवम् । तदुक्तं तार्किकादिभिरपि । ' न हि जानन्नेव पुरुषो जानामि न वेति न जानामीति वा जानातीति । 'घटज्ञानवान् पुरुषो ' 'घटमहं जानामि न वेति घटं न जानामी 'ति वा नानुभवतीति तदर्थ इति वाच्यम् । स्वान्यभानानपेक्षभातीतिव्यवहारविषयत्वं स्वप्रकाशत्वमिति हि मूल एवं जडत्वस्य मिथ्यात्वहेतोर्विवेचने उक्तम् । तथा चोक्तविषयत्वे वृत्तौ स्वीक्रियमाणे गौरवम् । 'सुखं भाति' 'चिद्वाती 'त्यादौ चित्तादात्म्यस्यैव प्रयोजकतया क्लृप्तत्वेन वृत्तिभीतीत्यादौ वृत्तितादात्म्यस्य प्रयोजकतया कल्पनीयत्वात् । किं चताकिकादिमते संशयाद्ययोग्यत्वरूपमनावृतत्वं निश्चयविषयत्वम् । न त्वावरणाविषयत्वम् । तैर्भावरूपस्यावरणस्यास्वीकारात् । तथा च वृत्तेर्घटादिवदुक्तविषयत्वेऽपि न स्वप्रकाशत्वम् । न च तन्मते सर्वस्य ज्ञानस्यानुव्यवसायाभावेनोक्तविषयत्वासम्भवात् । संशयादिविषयत्वे ज्ञानतादात्म्यमेव विरोधित्वेन कल्प्यम् । तथा च तादृशतादात्म्यमेव स्वप्रकाशत्वमिति वाच्यम् । उक्तकल्पनायां गौरवात् । तैर्युक्तविषयत्वं प्रति निश्चितत्वमवश्यं विरोधि वाच्यम् । अविद्यमानस्यापि घटादिज्ञानस्यात्मनि निश्वये तत्संशयानुत्पत्तेः । तथा च विद्यमानेऽपि घटादिज्ञाने निश्चितत्वस्यवोक्त• विरोधित्वं सम्भवति । अनुव्यवसायस्य सर्वदोत्पत्त्यसम्भवेऽपि सिद्रूपमित्यानुव्यवसायेन निश्चितत्वसम्भवात् । किं च सुखादेरप्युक्तविरोधित्वं त्वया वाच्यम् । तथा च मुखत्वादिसाधारणस्याहमर्थविशेष्यतानिरूपितनिश्चयप्रकारतावच्छेदकत्वस्य धी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336