Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी संशयाहितजीवनसंशयद्वारा करणम् । उक्तनियमसंशयो वा जीवनसंशयद्वारा करणम् । करणस्य सव्यापारत्वानियमात् । जीवनसंशय एव वा करणम् । देवदत्तो बहिरस्तीत्यर्थापत्त्यन्वयव्यतिरेकानुविधानस्याविशेषात् । बहिस्सत्त्वं विनानुपपन्नत्वं तु बहिस्सत्त्वाभावव्यापकाभावप्रतियोगित्वम् । प्रकृते तु 'ढग्दृश्ययोरन्यतरमिथ्यात्वं विना सम्बन्धोऽनुपपन्न' इति धीः पूर्वनिश्चितयोईग्दृश्ये सम्बन्धे एव तयोस्सम्बन्धः सत्य एवेति नियमयोः संशयाहितं दृग्दृश्ये सम्बन्धे न वेति संशयं द्वारीकृत्य विप्रकर्षहेतुकः । तयोस्सत्यसम्बन्धाभावनिश्चयः तादृशसंशयो वा करणमुक्तान्यतरन्मिथ्येत्य पत्ताविति द्रष्टव्यम् । प्रतिकलमिति । सम्बन्धिमिथ्यात्वे सम्बन्धमिथ्यात्वनियमात् मिथ्यात्वस्य च तुच्छत्वरूपत्वात् सम्बन्धस्वरूपस्य कालादिसम्बन्धिनः प्रतिकूलं सम्बन्धिमिथ्यात्वमिति पराभिमानः । परमते शुक्तिरूप्ये मिथ्यात्वसम्बन्धस्य शुक्तिरूप्याभावस्य च सत्यत्वस्वीकारात् तत्र मिथ्याप्रतियोगिकत्वमिथ्यानुयोगिकत्वयोमिथ्यात्वासाधकत्वान्नेयं परोक्तियुक्ता । मन्मतेऽपि प्रपञ्चाभावे ब्रह्मस्वरूपे व्यभिचारो बोध्यः । उक्तरीत्या इच्छादाविव ज्ञानेऽपि विषयस्य सत्यस्सम्बन्ध इत्यादि. रीत्या सम्बन्धान्तरेण अध्यासान्यसम्बन्धेन आक्षेप्यं विनाक्षेपकस्यानुपपत्तिमाहसत्यत्व इति । दृग्दृश्यसत्यत्वे इत्यर्थः । नन्वनध्यस्तसम्बन्धस्य त्वयानङ्गीकारादध्यस्त एव सम्बन्ध आक्षेपकः । अध्यस्तता च नाक्षेपात्पूर्वं सम्भवति । आक्षेपस्यैव सदृश्यमिथ्यात्वसाधकत्वादित्याशङ्कय निषेधति-न चाध्यस्तत्वस्येति । सम्बन्धत्वेन विप्रकृष्टयोस्सम्बन्धत्वेन । स च तादृशरूपविशिष्टसम्बन्धश्च । अबाधित इति । तथा च मिथ्यात्वरूपेण सम्बन्धस्येव तदभावस्थापि निश्चयो नाक्षेपपूर्वमस्तीति मिथ्यात्वरूपेण सम्बन्धसिद्धौ न बाधकमिति भावः । न विशेष इति । अधिष्ठानारोप्ययोः सम्बन्धः अध्यस्तसम्बन्धशब्दार्थः । स च न सम्भवति । अधिष्ठाने आरोप्यस्य सम्बन्धप्रत्ययासम्भवात् । अधिष्ठानज्ञानं हि आरोप्यसम्बन्धज्ञानविरोधीति भावः । ननूक्तप्रत्ययोऽपि न सम्भवति । शक्तिरूप्ययोस्सम्बन्धविषयकत्वात्तत्राह-चैत्रस्येति । अभावे अभावकाले । तथा च चत्रमैत्रयोः मिथो वैशिष्टयग्रहासम्भवकाले। यथा चैत्रस्य पिता मैत्र इत्यत्र ज्ञाने चैत्रस्य जनकतायां विशेषणत्वं, तथा शुक्तित्वविशिष्टस्य रूप्यसम्बन्धग्रहासम्भवेऽपि भ्रमविशेष्यत्वरूपाधिष्ठानत्वघटके भ्रमे रूप्यस्य सम्बन्धावगाही प्रत्ययो नानुपपन्न इति भावः । वृत्तिगतत्वेऽपीति । ननु, वृत्तौ तुच्छाकारताखीकारे तुच्छे वृत्तिसम्बन्धोऽपि स्वीकृत इति चेन्न । वृत्तौ तुच्छाकारता हि न सार्वदिकी । किं तु, वृत्तिकालावच्छिन्ना । तुच्छे तु वृत्तिविषयत्वं याच्यते, तदा तदपि तादृशमेव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336