Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 279
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदे प्रतिकर्मव्यवस्था] लघुचन्द्रिका । २६७ जीवस्य गुरुत्वादौ तादात्म्याभावेऽपि नासङ्गतिः । आकरे बृहदारण्यकभाष्यादौ । उक्तं हि तत्र 'यदि स्वाभाविकं कर्तृत्वं स्यात् , तदात्मनो मोक्ष एव नस्यात् । अतो दृष्ट्वैव पुण्यं च पापं चेत्यादिना कर्तृत्वाभावप्रतिपादनेन स्वभावतोऽकर्तेति ज्ञापितम् । 'ध्यायतीव लेलायतीवे'त्यादिना च पूर्वमकर्तृत्वमुक्तम् । तत्र चासङ्गत्वं हेतुः । कारकसङ्गिनो हि मूर्तस्यैव कर्तृत्वम् । अत एव व्यासः 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।' इति । नेयेति । जीवस्येव ब्रह्मणो वस्तुतोऽसङ्गत्वेऽप्युपादानत्वात् ब्रह्म प्रपञ्चाश्रयः । अत एव 'न च मत्स्थानि भूतानी'ति स्मृतिरिति भावः । तस्यैवेति । तथा च स्वप्रतिबिम्बवद्वृत्तिविषयत्वघटितसंश्लेषसम्बन्धेनावच्छेदकत्वसम्बन्धेन प्रतिबिम्बसम्बन्धेनैव वा जीवस्य भासकत्वम् । अत एव न सर्वावभासकत्वप्रसङ्ग इति भावः । अत एव निरुक्तसम्बन्धेन जीवस्य भासकत्वादेव । स्वतः स्वरूपेण । चिद्विम्बाग्राहके चित्प्रतिबिम्बायोग्ये । वृत्तिं वृत्तिसंश्लेषम् । तदाकारत्वायोगात् स्वतश्चिद्विम्बाग्राहके प्रतिबिम्बितत्वायोगात् । सूर्यादेः जलादिसंयुक्तमृदादाविव जीवचितो वृत्तिसंश्लिष्टे घटादौ प्रतिबिम्बस्य सम्भव इति भावः । ननु, सुखादेरिव शुक्तिरूप्यादेरपि स्वच्छत्वसम्भवातत्र वृत्तिकल्पना न युक्तेति चेन्न । अस्वच्छव्यावहारिकरजतादिजातीयं कामयमानस्य पुरुषस्य प्रवृत्तिरस्वच्छरजतादावेव जायत इति तदनुरोधेन भ्रमस्थले तादृशमेव रजतादिकं कल्प्यते । किं च रजतत्वावच्छेदेनाखच्छत्वास्वीकारे यस्या व्यावहारिकरजतव्यक्तेरुत्पत्तिद्वितीयक्षणादौ प्रत्यक्षोत्तरं नाशः, तस्याः वृत्तिर्न वीक्रियेत । इष्टापत्तौ च 'व्यावहारिकरजतप्रत्यक्षं सर्वमिन्द्रियजन्यमिति प्रतिसन्धाय तदर्थमिन्द्रियव्यापारे प्रवृत्तेरनुपपत्तिरिति भावः । स्वभावस्य गन्धादिभेदसामानाधिकरण्यस्य । द्रव्यसमवेतस्य चाक्षुषे गन्धादिव्यावृत्तरूपेण रूपादेहेतुत्वं रूपादिव्यावृत्तरूपेण गन्धादेः प्रतिबन्धकत्वं वेति न गन्धादौ चाक्षुषादिकमिति भावः । अन्यः वृत्तिसंश्लेषादिरूपः । दृश्यत्वे भास्यत्वे। अभेदाभिव्यक्तीति । अभेदाभिव्यञ्जकोपरागेत्यर्थः । सम्बन्धावभासः विषयसाक्षिणोस्सम्बन्धेत्यर्थः । मायोपाधिकेति । मायावृत्तिरूपोपाधिघटितेत्यर्थः । अधिष्ठानत्वम् अकल्पिते कल्पितस्य तादात्म्यम् । असङ्गत्वेऽपीति । अविद्यादौ यादृशः स्वप्रतिबिम्बरूपस्सम्बन्भस्तादृशस्य घटादावभावेऽपीत्यर्थः । अध्यासेन अध्यासतादात्म्येन । नोपादानत्वं न सर्वमासकताप्रयोजकोपादनत्वपदार्थः । शुद्धस्येति शेषः। कल्पितानामिति । परमार्थतश्शुद्धमपि अविद्ययेव दृश्यान्तरैरपि सार्वश्यादिभिस्सम्बध्यत इति भावः । तेषामिति। शुद्धं प्रतीति शेषः । उक्तं च विवरणादौ तथेति भावः । भन्यस्य अन्यस्मिन् कल्पि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336