Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 281
________________ Shri Mahavir Jain Aradhana Kendra प्र०दे प्रतिकर्मव्यवस्था ] www.kobatirth.org लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २६९ वृत्तिकाला भावविशिष्टमज्ञानं भानविरोधीत्युपान्त्यपक्षः । वृत्त्युत्पत्तिक्षणोत्तरवृत्तिकालाभावविशिष्टमज्ञानं भानविरोधीत्यन्त्यपक्षः । अत एव यथा प्रतिभटागमनक्षण एवं भोरुभटापसरणं, तथा वृत्त्युत्पत्तिक्षण एवावरणाभिभवः । यथा च हस्तसंयोगोत्पत्त्युत्तरं कटस्य वेष्टनं, तथा वृत्त्युत्पत्तिक्षणोत्तरवृत्तिकाले आवरणाभिभव इत्याशयेन दृष्टान्तो युज्यते । अत एव च नानाज्ञानपक्षे शक्तः ज्ञाननाश्यत्वपक्षे वा वृत्त्यावरणस्याभिनवो वृत्तिरेव वा स इति पक्षद्वयं बोध्यम् । वक्ष्यमाणरीत्या चरमपक्षाभ्यां भिन्न एव वा एकदेशनाशपक्षो बोध्यः । एकाकारं एकाज्ञानस्वरूपम् । यथा घटादिरूपावस्थास्वनुगतमप्यज्ञानं घटादिनाशेऽपि न नश्यति तथा अज्ञानरूपनानावस्थासु अनुगतमज्ञानं तासां नाशेऽपि न नश्यति । एतावांस्तु विशेषः । यत् घटाद्यवस्थानादिरज्ञानोच्छेदं विना नोच्छिद्यते । अज्ञानरूपावस्था तु स्वानुगताज्ञानवदनादिः तदुच्छेदं विनाप्यच्छिद्यते च । न चाज्ञानत्वादेव तासां ज्ञाननाश्यत्वसम्भवात्तत्र मूलाज्ञानतादात्म्यस्वीकारो व्यर्थ इति वाच्यम् ।' अजामेकां ' ' अज्ञानेनावृतं ज्ञानमित्यादिश्रुतिस्मृतिप्वावारकस्यैकस्वरूपाभिन्नत्वप्रत्ययात् ' अज्ञातः पटः '' अज्ञातो घटः' इत्याद्यनुगतप्रतीतिषु तथाप्रत्ययाच्चेति भावः अनीदृक्त्वात् । अज्ञानत्वशून्यत्वात् । प्रागभावान्तरनिबन्धनमिति । 'अज्ञातो मे घट' इत्यादिप्रत्यक्षधीस्तत्पुरुषीयज्ञानाविषयवृत्तित्वविशिष्टं तत्पुरुषीयज्ञानस्य संसर्गाभावमवगाहत इति परैः स्वीक्रियते । तत्र यथा तत्पुरुषीयकिञ्चिज्ज्ञानविषये घटे तादृशप्रत्यक्षाभावो विषयविधया तादृशप्रत्यक्ष कारणीभूतस्य तादृशाभावस्याभावात्, तथा मन्मते वृत्तिज्ञानमेकाज्ञाननिवर्तकं अन्याज्ञानप्रयुक्तस्य 'बटो न भातो'ति व्यवहारस्यानुत्पत्तौ प्रयोजकम् | तत्त्वञ्च तादृशव्यवहारं प्रति घटाकारवृत्तेः प्रतिबन्धकत्वाद्वृत्तिविषयत्वाभावकालोपहित एव । घटे आवृतत्वस्वीकारात् । वृत्त्यविषयत्वविशिष्टं यदज्ञानं, तदभावविशिष्टचितो मानत्वस्वीकारेण वृत्तिकाले तस्याः घटादौ सवाद्वा । सर्वथापि तादृशव्यवहाररूपकार्यानुत्पत्तिव्याप्यार्थकं प्रतिबन्धकपदं वृत्तावस्मदीयैः प्रयुज्यते इति समुदायार्थः । प्रतिबन्धकपदेन प्रतिबध्नातीत्यनेन । प्रतिबन्धकतायां 'घटो भाती'त्यादि व्यवहारोत्पत्तिप्रयोजकाभावप्रतियोगितायाम् । सा च भातीत्यादिव्यवहारे वृत्त्यभावविशिष्टसम्बन्धस्य प्रतिबन्धकत्वाद्वा वक्ष्यमा - रीत्या वा बोध्या । अत्रेदं बोध्यम् । वृत्त्यनवच्छेदकत्वसमानाधिकरणो यो ऽज्ञानसम्बन्धः, तस्य भातीतिव्यवहारे प्रतिबन्धकत्वात् घटादौ वृत्त्यवच्छेदकत्वकाले तथा व्यवहारः । अथवोक्तसम्बन्धाभावाश्रयतादात्म्यापन्ना चिदेव भानम् । तेनोक्तका -

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336