Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रतिकर्मव्यवस्था
लघुचन्द्रिका ।
२७१
पक्षयोः उपपादनं पूर्वमेव कृत्वा · ननु, चैतन्यस्य निरवयवत्वा'दित्यादिनोक्तपक्षाभ्यां भिन्नत्वेन स्वीकृत्य एकदेशनाशपक्ष उपपाद्यते । तत्र यदवच्छिन्नेत्यादेरयमर्थः । यत्कालावच्छेदेन घटादौ मनोवृत्तिः, तत्कालावच्छेदेन नाज्ञानविषयतावच्छेदकत्वम् । किं तु तदन्यकालावच्छेदेन । तथा चास्मिन् पक्षे अज्ञानविषयतानवच्छेदकत्वविशिष्टघटादेस्तादात्म्यविशिष्टा चिदेव घटादेर्भानम् । अस्तित्वं त्व. सत्त्वापादकाज्ञानघटितमिति लाघवम् । यत्तु शुक्त्यादिज्ञानस्याज्ञानशक्तिनाशकत्वमयुक्तम् । शक्तेभ्रमोपादानत्वे अज्ञानत्वापत्तेः । भ्रमानुपादानत्वे तन्निवृत्तावपि भ्रमानिवृत्त्यापत्तेः । शक्त्यन्यस्याज्ञानम्य वैयर्थ्याच्चेति, तन्न । भ्रमोपादानत्वेऽपि हि शक्ते ज्ञानत्वम् । तादृशशक्तिमत्त्वस्यैवाज्ञानलक्षणत्वात् । अत एव न तम्या वैयर्थ्यम् । कार्यप्रयोजकशक्तिमत्त्वं विना कारणत्वासम्भवात् । अथ वा शक्तिोंपादानम् । किं तु तद्वदज्ञानम् । शक्तिर्हि मीमांसकमते कारणतैव । न तु कारणम् । तन्मात्रस्य निवृत्त्यापि रूप्यादिनिवृनिस्सम्भवत्येव । शक्तिविशिष्टरूपस्योपादानस्य नाशात् । यदपि नानाज्ञानपक्षे अज्ञानीयनानाशक्तिपक्षे च शुक्त्यादिज्ञानेन किञ्चिदज्ञानस्य शक्तेश्च नाशः । अज्ञानस्य शक्त्यन्तरस्य च कार्यक्षमतया अवस्थानं न युक्तम् । सर्वत्राज्ञाने शक्तौ च कार्याक्षमत्वस्थ वक्तुं शक्यत्वा. देकाज्ञानपक्षस्यैव युक्तत्वादिति। तदपि न युक्तम् । 'ज्ञानादज्ञानं नष्ट'मितिप्रत्ययस्य बाधस्य चोपपादनाय नानाज्ञानशक्तिपक्षयोरपि युक्तत्वात् । अधिष्ठानचैतन्यामिति । जीवचैतन्यस्य भासकत्वपक्षेऽपि तस्याधिष्ठानीभूतचित्स्वरूपकत्वादयमुपसंहारो युक्तः । अत एव प्रकाशकं तावदधिष्ठानचैतन्यमेवेत्यादिपूर्वग्रन्थः यथाश्रुतोऽपि रम्य एव । एवञ्च जीवस्य सर्वगतत्वनगदुपादानत्वयोः स्वीकारपक्षे जीवस्यैव भासकत्वं पूर्वोक्तं न विरुध्यत इति बोध्यम् । ननु, एकजीववादे जी. वस्य जगदुपादानत्वादावरणभङ्गार्थव घटादौ वृत्तिः । तथा चैकस्य प्रमातुः तादृशवृत्तिकाले अपरस्यापि घटादिकमपरोक्षं स्यात् । एवमेको जीवोऽसङ्गः स. वंगतो ब्रह्मैव जगदुपादानमितिपक्षे साक्षिचिदुपरागाथैव सा । तथा चोक्तापत्तिः । साक्षिणः सर्वान् प्रमातॄन् प्रत्यविशिष्टत्वेन घटादिचित्युपरक्तत्वादित्यत आह-तदयमित्यादि । प्रमेयचैतन्यमिति । जीवचैतन्यस्य मासकत्वपक्षेऽपि तद्भास्यं घटाद्यवच्छिन्नं
चैतन्यम्।मनोवृत्तेस्तदाकारत्वात्। घटादेस्तु तदवच्छेदकत्वस्यैव स्वीकारात्।घटादिकं तु तादृशेन प्रमेयचिता भास्यते । अत एव तत् स्वयं भासमानं सत् खाध्यस्तं घटाद्यपि भासयतीति मूले अग्रे वक्ष्यते। अन्तःकरणेति । देहावच्छिन्नमनोभागेत्यर्थः । अन्तःकरणवृत्तीति । देहविषययोर्मध्यस्थमनोमागेत्यर्थः । प्रमाणामिति । वि.
For Private and Personal Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336