Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे प्रतिकर्मव्यवस्था ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२५९
प्रतिकर्मव्यवस्थायाः कस्य चित्पुंसः कदाचिदेव कश्विदेव विषयो ज्ञानकर्म । न सर्वस्य सर्वदा सर्व इति प्रतिनियतकर्मव्यवस्थायाः । चक्षुर्वदिति । तथा च यथा चक्षुः तेजस्त्वात् प्रभावत् शीघ्रं दूरस्थसूर्यादिसंयुक्तरूपेण परिणमते, तथा मनोऽपीति भावः । यथा नदीत्यादि । यथा नदीजलं नद्या अविभक्तमेव केदारादिना संयुज्यते, तथा देहादविभक्तं मनः विषयेणेति भावः । सर्वगतमिति । यथा गोत्वादिजातिः स्वरूपादिसम्बन्धेन सर्वगतापि गवादिव्यक्तावेवाभिव्यक्तत्वात् तत्रैव समवायेन वर्तत इति प्राचीनतार्किकादय आहुः । तथा जीवः सर्वतादात्म्याविशिष्टचित्तादात्म्यादिसम्बन्धेन सर्वगत इत्यर्थः । जीवचैतन्यमिति । जीवस्य जगदुपादानवे स एव भासकः । तस्य तदभावपक्षे तु तदुपरक्तमा वैष्ठानचैतन्यमेव भासकम् । वक्ष्यते हि 'अधिष्ठानचिदेव भासिका । प्रकाशस्य साक्षात्स्व सम्बन्ध भासकत्वा' दित्यादि । तथा चाद्ये जीवोऽपि भासकः । द्वितीये ब्रह्मैवेत्यर्थः । अनावृतमावृतश्च - ति । जीवस्य जगदुपादानत्वपक्षे मनदेखि घटादेरपि सर्वस्य व्यवहारकाले भातीतिव्यवहारापत्त्या मन आद्यवच्छेदेनानावृतमपि घटाद्यवच्छेदेनावृतं जीवचैतन्यम् । तस्य जगदनुशदानत्वपक्षे तु वक्ष्यमाणस्य भासवः तानियामकसम्बन्धस्य कादाचित्कत्वादेव घटादेरुक्तव्यवहारे कादाचित्कत्वसम्भवादनावृतमेव तदिति भावः । उपरागार्थेति । स्वप्रतिविम्बाश्रमवृत्तितषार्थीत्यर्थः । वृत्ते संश्लेषस्तु संयोगादिराकाराख्यविषयता चेत्युभयरूपो बोध्यः । रूपाकारवृत्तेः संयुक्तसमवायस्य रसादावपि सत्त्वाद्विषयतानिवेशः । परोक्षवृत्त्या रूपादेर्भानवारणाय संयोगादिनिवेशः । उक्तोभयस्थाने अवच्छेदकता निवेश्यते । सा च न परोक्षवृत्तेः, न वा रसादौ रूपाकारवृत्तेः । वृत्त्यवच्छेदकत्वस्येन्द्रियसन्निकर्षादिसामग्रीनियम्यत्वादिति तु वस्तुगतिः । द्वितीये त्विति । तुशब्दादुपरागार्थत्वव्यवच्छेदः । जीवस्योपादानत्वे घ
तादात्म्यरूपपरागस्य सिद्धत्वादिति शेषः । आवरणाभिभवार्थेति । एवकारश्शेषः । तेनोपरागार्थत्वपक्षेऽप्यावरणाभिभवार्थत्वलाभः । ब्रह्माकारवृत्तेहिं नोपरागार्थत्वम् । साक्षिणस्तादात्म्यरूपोपरागस्य ब्रह्मणि वृत्तिं विनापि सम्भवात् । न हि वृत्तिघटित एवोपराग सर्वत्रापेक्ष्यते । अविद्यातद्वृत्तिषु मभस्तत्परिणामेषु च तदभावात् । अथ वा साक्षिणः प्रतिविम्बमेव सर्वत्रोपरागोऽपेक्ष्यते । मनआदाविव मनस्त्वादावपि वृत्तिं विनापि साक्षिणः प्रतिविम्बं स्वीक्रियते । घटादावपि वृत्तिसंश्लिष्टे साक्षिणः प्रतिविम्बं स्वीक्रियते । अत एव स्वल्पजलादिसंयुक्तमृदादौ सूर्यादिप्रतिबिम्बमनुभूयते । न च जलादावेव तत्प्रतिविम्बं न तु मृदादाविति वाच्यम् । ज्लादियुक्तमृदाद्यन्तर्गततया सूर्यादेः प्रत्ययात् । तथा च वृत्तिं विना ब्रह्मणि

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336