Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 276
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४ अद्वैतमञ्जरी । भावो बाधकं विना तत्सामान्ययोरपि स'इति न्यायादज्ञानतमोऽन्यतरनाशं प्रति संयोगेन संयुक्तसमवायादिना च सम्बन्धेन तेजस्त्वेन हेतुत्वम् । न चैवं विशेषतः कार्यकारणभावो व्यर्थ इति वाच्यम् । आलोकसंयोगे सति मनश्चक्षुरादिभिस्सह घटादेः संयोगे चासति घटादौ शाब्दादिवृत्त्या आवरणनिवृत्त्यापत्तेश्चक्षुरादिसंयोगे सति आलोकसंयोगे चासति मनोवृत्त्यावरणनिवृत्त्यापत्तेविषयत्वसंश्लेषोभयसम्बन्धेन मनोवृत्तेरभानापादकाज्ञाननाशे हेतुत्वं संयोगाद्यन्यतमसम्बन्धेन प्रभायाम्तमोनाशे हेतुत्वमित्यस्यावश्यकत्वात् । अवच्छेदकत्वसम्बन्ध एवो कोमयसम्बन्धस्थानीयो लाघवादिति तूक्तम् । एवं चापरोक्षत्वजातेस्तद्विशिष्टोत्पत्तौ शाब्दादिसामग्या नियामकत्वस्य चाकल्पनालाघवम् । सन्निकृष्टतेजःकारणत्वेति । सन्निकर्षसम्बन्धे न मनोवृत्तिकारणत्वेत्यर्थः । तत्रावरणभङ्गे कारणत्वं तत्कार्यप्रवृत्यादिकारणत्वं बोध्यम् । वृत्तेहि नाज्ञाननाशे हेतुत्वम् । किं त्वावरणविरोधित्वमात्रम् । आलोकस्यापि तमोध्वंसरूपत्वाचाक्षुषादिमनोवृत्त्यादिरूपकार्ये हेतुत्वम् । न तु तमोनाश इति बोध्यम् । तस्य मनस्सन्निकर्षस्य । चक्षुरादेरिव मनसोऽपि सन्निकर्षश्चाक्षुषादिकार्य हेतुः । विनिगमकाभावात् । यदि हि मनो न स्थूल तार्किकादिमतवत् स्यात्, तदा तस्य जीवनकाले देहात् बहिरगमनान्न घटादिसन्निकर्षसम्भवः। यदा तु युगपद्धस्तपादाद्यवच्छेदेन सुखदुःखादिनानापरिणामभागित्वेन स्थूलं, तदा चक्षुरादितुल्यत्वेन तत्सन्निकर्षः कथं न चाक्षुषादिहेतुः । चाक्षुषादिहेनुतावच्छेदकजातिविशेषस्य तत्रापि सम्भवात्। चक्षुरादेर्मनोमिश्रितत्वात् घटादिसंयुक्तचक्षुरादिभागावच्छेदेनापि तदितरचक्षुरादिभागावच्छेदेनेव विनिगमकाभावेन चक्षुरादौ मनससंयोगस्य चाक्षुषाद्युत्पत्तिकाले सत्त्वात् घटादौ मनस्संयोगस्यावश्यकत्वाच्च । न हि मनश्चक्षुरादेरेकदेश एव संयुज्यत इति नियन्तुं शक्यते । किं तु विशरारुतेजोभागबहुलत्वेन तदीयसर्वभागेषु । तथा च चक्षुरादेः क्रियैव मनसो घटादिसंयोगे हेतुः । एवं च घटादौ संयुज्यमान चक्षुरादिमिश्रितं मन एव घटाद्याकारवृत्तिः चक्षुरा. दिसंयोगनान्तरीयकत्वात् तज्जन्यतया व्यवहियते । न तु सा तज्जन्येति लाघवम् । तादृशवृत्तौ चक्षुरादिक्रियाया अपि न हेतुत्वम्। प्रयोजनाभावात् । संयोगविशेष एव घटादिनिष्ठे तस्या हेतुत्वम् । तदर्थमेव चक्षुरादियुक्तमनःक्रियायां प्रमातृप्रवृत्तिरिति संक्षेपः । अधिष्ठानस्येति । कर्णादिकं यथा श्रोत्रादेरधिष्ठानं, तथा त्वमेव त्वगिन्द्रियस्याधिछानमिति भावः। तेजस्त्वस्येति । विषयसंयुक्तेन्द्रियसंयुक्तमनस्त्वस्येत्यपि बोध्यम् । तत्प्रमापकस्य विषयसंसृष्टत्वप्रमापकस्य । ज्ञानवत् चाक्षुषादिमनोवृत्ताविव । परागित्यादि। परागर्थप्रमेयषु या फलत्वेन सम्मता । संवित् सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमा. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336