Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 238
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir २२६ www.kobatirth.org अद्वैतमञ्जरी । त्यादि । अनाश्रित्य बाधकधीविषयत्वेनास्वीकृत्य । यत् यद्वाधकधीविषयः, तत् तदपेक्षया अधिकसत्ताकम् । अन्यथा समबलत्वेन बाध्यवाधकत्वव्यवस्थानुपपत्तेः । अतस्तात्त्विकस्य धीरेव व्यावहारिकस्य बाधिकेति भावः । अथ वा अनाश्रित्य साक्षित्वेनास्वीकृत्य । साक्षिणो बाधे तस्य साक्षी अन्यो वाच्यः तस्याप्यन्य इत्यनवस्था । साक्ष्यन्तरास्वीकारे निस्साक्षिकबाधानुपपत्तिः । तदुक्तम्- 'अप्रत्यक्षप्रकाशस्य नार्थदृष्टिः प्रसिध्यति ।' इति। अप्रकाशमानप्रकाशेन नार्थसिद्धिरित्यर्थः । उपाधीति। बाध्यत्वादेः स्वप्नधर्मस्य ब्रह्मादावभावप्रदर्शनेन स्वप्नादौ निश्चितसाध्यव्यापकत्वं ब्रहणि साधनाव्यापकत्वं च दर्शितमिति भावः । विमता नीलाद्यनुभवरूपा धीः । ज्ञानव्यतिरिक्तालम्बना । न स्वात्यन्तविलक्षणविषयिका नानुभवत्वशून्यविषयिकेति यावत् । खस्वरूपसमानसत्ताकविषयतादात्म्ययुक्तेति वार्थः । विज्ञानवादिना हि ज्ञानतद्विषयप्रमात्रादीनामत्यन्ताभेदेऽपि कल्पितभेदेन प्रमाणप्रमातृप्रमेयप्रमितिभेद इत्युच्यते । अनीलादिव्यावृत्युपहितं ज्ञानं प्रमेयम् । तत्प्रकाशनोपहितं प्रमितिः । तब्यक्त्युपहितं प्रमाणम् । तदाश्रयत्वोपहितं प्रमातृ । उक्तं च भामतीकल्पतर्वादावेवम् । तथा च ज्ञानविषयतत्तादात्म्यानामेकजातीयसत्ता विज्ञानवादे स्वीक्रियते । औपनिषदमते नीलादितादात्म्यमनुभवनिष्ठमपि नानुभवसमानसत्ताकमिति न सिद्धसाधनम् । धीत्वात् अनुभवत्वात् । स्वप्नधीवत् अनुभवविषयकस्वाप्नधीवत् । औपनिषदमते शुद्धस्यानुभवस्य स्वाप्ने अवच्छिन्नानुभवे विषयतारूपतादात्म्यसत्त्वान्न साध्यवैकल्यम् । न चोक्तानुभवविषयस्य जडस्वानुभवत्वशून्यत्वात् बाध इति विज्ञानमात्रविषयके अननुभवाविषयकत्वसत्त्वात् सिद्धसाधनं तदवस्थमिति वाच्यम् । तवानुभवाविषयकत्वावच्छेदेनानुभवाविषयकत्वासत्त्वात् औपनिषदं प्रत्यनुभवत्वाश्रयविषयकत्वस्यैव साध्यत्वाद्वा । नीलादिरूपो योऽननुभवस्तद्विषयकत्वावच्छेदेनानुभवविषयकत्वस्यास्तिकैरस्वीकारान्न सिद्धसाधनम् । योगाचारेण तु, एकव्यक्तेरेवानुभवत्वनीलत्वादि खीकारात् नीलत्वाद्याश्रयविषयकत्वावच्छेदेनैवानुभवविषयकत्वं स्वीक्रियत इति न बाधः । एवं नीलाद्यनुभवः स्वसमसत्ताकनीलस्वादिसंसर्गयुक्तः । अनुभवत्वात् । यो यद्विषयकानुभवः सः तवृत्त्यसाधारणधर्मस्य स्वसमानसत्ताकसंसर्गवान् । यथाऽनुभवविषयकानुभवोऽनुभवत्वस्य स्वसमसत्ताकसंसर्गवानिति सामान्यतो व्याप्तिः । बुध्यार्थस्य सहेक्षणादित्यादेस्तर्कप्रदर्शनपरत्वमाह-न हीत्यादि । ननु, तुच्छस्य ज्ञानत्वशून्यस्यापि ज्ञानविषयत्वाव्यभिचारः । तत्राह-न ज्ञानातिरिक्तं सदिति। ज्ञानत्वशून्यं न सत् । न तुच्छविलक्षणमित्यर्थः । तथा च तुच्छविलक्षणविषयकज्ञानत्वमेवानुभवत्वम् । तुच्छज्ञानं तु विकल्पः । नानुभव इति नानुभवत्वं व्यभि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336