Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रदे ग्रयसम्बन्धभङ्गः ] लघुचन्द्रिका | २३९ तत्तद्विषयितारूपाकारापेक्षणीयत्वेन । तच्चोक्तरीत्या बोध्यम् । व्यवहारेति । व्यवहारजनकेत्यर्थः । परिचायकत्वेन इतरस्माद्व्यावर्तकत्वेन । ज्ञानस्वभावानामननुगतत्वात् तेषामेव न तेषु व्यावर्तकत्वम् । न वा व्यवहारजनकत्वं व्यावर्तकम् । तस्योपधाय कतारूपत्वे अननुगमात् । स्वरूपयोग्यतारूपत्वे जनकतावच्छेदकरूपत्वेन विषयघटितत्वावश्यकत्वात् ॥ Acharya Shri Kailassagarsuri Gyanmandir ॥ इति लघुचन्द्रिकाय असतोऽसाधकत्वे बाधकम् ॥ संयोगसमवाययोरभावादिति । गुणादौ नात्मनस्संयोगः । द्रव्येऽपि तस्यातीतत्वादिकाले उत्पत्तिकाले वा न सः । न चोत्पत्तिकाले संयोगो मास्तु । अतीतादौ तु तदीयसूक्ष्मावस्था संयोगद्वारकस्सम्बन्धः । एवं गुणादावपि द्रव्यद्वारेति वाच्यम् । ཏུ व्यादेर्निरवयवत्वेन तत्र तद्गुणादौ च तदसम्भवात्सावयव एव संयोगस्य स्वीकारा - न्निरवयवे अवच्छेदकासम्भवात् । दिकालविशेषाणां तु त्रुत्यादौ सम्बन्धस्य दैशिकव्याप्यवृत्तितया दैशिकाव्याप्यवृत्तिस्वभावसंयोगादौ अवच्छेदकत्वासम्भवात्। आत्मगुणत्वं तु न ज्ञानस्य सम्भवति । तत्र मनस एवोपादानत्वात् । अन्यथात्मनस्तत्रोपादानत्वं मनसो निमित्तत्वमित्यत्र गौरवात् । आत्मरूपज्ञानस्य जगदुपादानस्य समवायो नातीता सम्भवति । न वा अनादौ । अनाध्यासिकस्येति । अधिष्ठानारोप्ययोः यत्तादात्म्यं, तदन्यस्येत्यर्थः । उक्ततादात्म्यं तु ज्ञानस्वरूपस्याधिष्ठानत्वं विषयस्यारोप्यत्वं साधयतीति वक्ष्यते । द्विष्ठसम्बन्धात्मकत्वेति । सम्बन्धस्य यो द्विष्ठस्वभावस्तदात्मकत्वेत्यर्थः । संयोगस्य द्विष्ठत्वेनोभयवादिसिद्धत्वात् कल्प्यो ज्ञानविषययोस्सम्बन्धोऽपि तादृशः कल्पयितुमुचितः । अन्यथा विषयनिष्ठा विषयता ज्ञाननिष्ठा च विषयितेति द्वयोः कल्पने गौरवात् । तदकल्पने विषयस्य प्रमात्वानुपपत्तेः । अत एव स्वत्वादिसम्बन्धोऽपि न युक्तः । स्वस्वामिनोविद्यमानस्यैकसम्बन्धस्यैव युक्तत्वात् । न हि चैत्रधनयोस्सम्बन्धद्वयं कस्यापि वुद्धिविषयः । अत एव गुणगुण्यादिस्थले तादात्म्यमेव भट्टादिमते स्वीक्रियते । न चैवं स सम्बन्धो गुणे गुणवतो वृत्तिनियामकः स्यादिति वाच्यम् । कुण्डवदरनिष्ठस्यापि संयोगस्य कुण्डवृत्त्यनियामकत्वस्य दृष्टत्वात् । अनङ्गीकारादिति । अज्ञानस्य प्रामाणिकत्वेन तन्निवृत्ते - रेव ज्ञानफलत्वसम्भवेन ज्ञातता न स्वीक्रियते । न च सैव विषयतेति वाच्यम् । प्रातीतिके अनुवाद्ये च विषये तदसम्भवात् । अतीतादाविति । ज्ञातता नातीते ज्ञानेनोत्पादयितुं शक्यते । तदुत्पत्तिपूर्वमुपादानस्य विषयस्य सत्वाभावात् । न च विद्यमानविषये तादात्म्येन सम्बद्धा सा निरूपकत्वसम्बन्धेनात्मनि सम्बध्यते इत्यवश्यं वाच्यम् । अन्यथा ज्ञानोपरमेऽपि पुरुषविशेषीयतया तस्याः प्रत्यक्षं न स्यात् । तथाचा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336