Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 261
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदे अनुकूलतर्कनिरूपणम्] लघुचन्द्रिका ।। २४९ उक्तानुपपत्तेमिथ्यात्वसाधकसहायत्वेनास्मदनुकूलत्वात् । न हि परमतेऽपि तत्रानुपपत्तिर्नास्ति । सम्बन्धस्यैवासम्भवात् । ज्ञानाज्ञानयोरिति । इच्छादेर्विषयेऽध्याससम्बन्धासम्भवाद्विषये विषयिणोऽध्यासस्सम्बन्ध इति नोक्तम् । अध्यासः अधिष्ठानारोप्यगतः । उपपद्यत इति । यद्यपि ज्ञाने ज्ञेयस्येवाज्ञाने तद्विषयस्य तादात्म्यमेव न सम्बन्धः । किं तु विषयितापि, तथापि सोक्ताध्यास एव । अधिष्ठानारोप्यगतत्वादिति भावः । अज्ञानतद्विषयशुद्धचितोः परस्परावच्छेदेन न तादात्म्याध्यासः । सुषुप्तौ भासमानस्याज्ञानाध्यासस्य निर्विकल्पकत्वेन निर्विशेष्यकत्वादज्ञानचित्सम्बन्धेऽवच्छे. दकस्य चित्सम्बन्धस्य वक्तुमशक्यत्वात् । अतो ज्ञानाज्ञानयोः स्वविषयेण परस्पराध्यासस्सम्बन्ध इति नोक्तम् । अध्यासविशेषस्य ' अहं ब्रह्मे' त्यादिवाक्यघटितसामग्रीजन्यवृत्तिनिष्ठस्य ब्रह्मतादात्म्यस्य । तथा च ताढशसामग्येव शुद्धब्रह्माकारतायां वृत्तिनिष्ठायां नियामिकेति भावः । फलेति । यादृशसामग्रीजन्यज्ञाने ब्रह्माज्ञाननिवृत्तिफलकत्वं, तस्यैव ब्रह्माकारत्वं कल्प्यत इति भावः । अनुभवबलमप्याह-न हीति । अत्र घटादिज्ञाने । नन्वविप्रकर्षस्य सम्बन्धव्यापकत्वे इच्छाया भाविविषयकत्वं न स्यात् । तस्मादिच्छाया इव ज्ञानस्यापि विप्रकृष्टे सम्बन्धोऽस्त्विति शङ्कां प्रतियोगिध्वंसादिन्यायेन पूर्वनिरस्तामपि प्रकारान्तरेण निरस्यति-इच्छेति । ज्ञानद्वारकः खोपधायकज्ञानविषयत्वरूपः । तथा च नेच्छासम्बन्धो दृष्टान्तः । ज्ञानसम्बन्धस्यैव इच्छासम्बन्धत्वादिति भावः । अधीनस्य द्वारकस्य । ज्ञानात् भिन्नः ज्ञानाघटितः । नन्वेवं ज्ञानस्यापि खोपधायकेन्द्रियसन्निकर्षादिकमेव सम्बन्धोऽस्तु । तत्राह-ज्ञाने विति । उपस्थितिं विषयताम् । सम्बन्धानुभवादिति । घटप्रत्यक्षकाले घटज्ञानमित्याकारको घटज्ञानयोस्सम्बन्धानुभवो वर्त्तते । स च सम्बन्धो नेन्द्रियादिघटितः । तस्यातीन्द्रियत्वेन प्रत्यक्षज्ञानाविषयत्वात् । साक्षिज्ञानेन हि स्वासम्बन्धोऽपि विषयः स्वसम्बन्धज्ञानविषयो गृह्यते । इन्द्रियादिघटितसम्बन्धस्तु स्वासम्बन्धोऽपि स्वसम्बन्धज्ञानस्याप्यविषयो न तद्विषयतया ग्रहीतुं शक्यत इति भावः । प्रत्यक्षाविषयस्यापि अनुमित्यादिविषयत्वेन साक्षिग्राह्यतासम्भवात् अनुमित्यादिनोपस्थिति विनेत्युक्तम् । असत्वादिति । अनुभवाधीनस्सम्बन्धः स्वोपधायकानुभवविषयत्वं, खोपधायकसंस्कारोपधायकानुभवविषयत्वं वा । नान्त्यः । संस्कारस्य साक्ष्यभास्यत्वेन साक्षिग्राह्यस्मृत्यविषयत्वेन च पूर्वोक्तन्यायेन घटस्मृतिसम्बन्धानुभवानुपपत्तेः । नाद्यः । अनुभवस्य खानुपधायकत्वात् । न ह्यविद्यमानमुपधायकमिति भावः । ननु, खोपधायकत्वं न सम्बन्धे निवेश्यम् । किं तु स्वसमानाधिकरणीयं यत् घटत्वाद्यवच्छिन्नं वि ३२ . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336