Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
૪૮
कुवलयानंदः
पतेः कटाक्षाः क्षीरोदप्रसरदुरुवीची सहचराः ॥ एतास्तिस्रो प्यतिशयोक्तयः कार्यशैघ्यप्रत्यायनार्थाः ॥ ४२॥
असंतेति । अत्रहेतुकार्ययोरित्यनुवर्तते तत्पौर्वापर्येतिक्कचित्पाठः साधुरेव । व्य तिक्रमोऽत्रवैपरीत्यम् । अग्रेप्रथमं अनुनीतासमाहिता । कवींद्राणामिति । कविश्रे ष्ठानामंगण संबंधिन्यो भूमयः प्रथमतरमेव प्रथममेवचलतांच पलानां भृंगाणां भ्रमराणामा संगेनाकुलानांकरिणांमदजलस्यामोदेनपरिमलेनमधुरारमणीया आसन्नभवन् । पश्चाद नंतरं तेषांकवीनामुपरिरुद्रसंज्ञकस्यनृपतेरमीदृश्यमानाः कटाक्षाः पतिताः । कीदृशाः क्षीरमुदकं यस्य तथाभूतस्यक्षीरार्णवस्य प्रसरती नामुरुवीचीनांबृद्द तरंगा णांसहचरास्तत्स दृशाइत्यर्थः । उदकस्योदः संज्ञायामित्युदादेशः । अत्रयथोक्तकटाक्षरूपकार्यमुखेननृ पतिप्रसादरूप हेतुकथनं पूर्वस्माद्विशेषः । एताअव्यवहितोक्ताः । अथोक्तेषुप्रभेदेष्वनुगत प्रवृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इतिचेदत्राहुः । तावत्प्रभेदान्यतम त्वमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेवचसामान्यलक्षणमिति । नव्यास्तु निगीर्याध्यवसानमेवातियोक्तिः प्रभेदांत रंत्वनुगतरूपाभावाद लंकारांतरमेव । नचा न्यत्वादिप्रभेदेष्वन्यत्वादिभिरभेदादीनां निगरणं संभवतीतिवाच्यम् । अन्यत्वादिभिर भिन्नवस्तुप्रतीतेरेवचमत्कारित्वेनानुभवसिद्धतयान्यत्वादिभिरभेदमतीसंगीकारेऽनुभ वासंगतेः । अन्यतमत्वंतुनालंकारविभाजकोपाधितांभजते चमत्काराप्रयोजकत्वादिति वति । वस्तुतस्तु रूपकभिन्नत्वेस तिचमत्कृतिजनकाहार्यारोपनिश्चयविषयत्वमेवातिश योक्तिसामान्यलक्षणं । रूपकवारणायससंतं भ्रांतिवारणायाहार्येति उत्प्रेक्षानिरासा यनिश्चयेति। रूपकातिशयोक्तावभेदस्य द्वितीयप्रभेदेऽन्यत्वस्य तृतीये संबंधस्यचतुर्थेऽसंबं धस्यपंचमेसहत्वस्यषष्ठेहेतुप्रसक्तिजन्यत्वस्यसप्तमे पूर्वापरत्त्रयोश्च तथाविधारोपविषयत्व सत्त्वात्सर्वत्र लक्षणसमन्वयः। नचैवंविधारोपस्यरूपकस्वभावोक्तिभिन्नेषुप्रायशः सर्वालं कारेषु सत्त्वादतिप्रसंगइतिवाच्यं । इष्टापत्तेः । अलंकारांतराणांचमत्कारेप्रधानतयातद गलेनावस्थिताया अतिशयोक्तेरप्राधान्येनव्यपदेशानईत्खात् । प्राधान्येनव्यपदेशाभवं तीतिन्यायात्। अलंकारांतराणामेवप्रधानत्वेन व्यपदेशार्हखात् । अतएवकाव्यप्रकाशकृ ताविशेषालंकारप्रसंगेऽभिहितं सर्वत्रैवंविधेविषयेऽतिशयोक्तिरेवप्राणत्वेनावतिष्ठते । तांविनाप्रायेणालंकारत्वाभावात् । अतएवोक्तं ' सैषासर्वत्रवक्रोक्तिरनयार्थीविभाव्य ते ॥ यत्नोऽस्यांकविभिः कार्यः कोलंकारोनयाविना ' इति ॥ दंडिनाप्युक्तं 'अलंकारां तराणामप्येक माहुः परायणम् । वागीशसहिता मुक्तिमिमामतिशयाव्हयामिति' ॥४२॥ इति श्रीमत्तत्सदुपाख्यवैद्यनाथ कृतायामलंकारचंद्रिकायां श्रीमद्रंगराजाध्वरींद्रसूनुश्रीम दप्पयदीक्षितकृत कुवलयानंदटीकायामतिशयोक्तिमकरणं संपूर्णम् ॥ ॥ ॥ ॥

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202