Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः १९१ दाभेदप्रधानचेत्युपक्रम्यविद्यानाथेनउपमानन्वयोपमेयोपमास्मरणानांभेदाभेदसाधार णसाधर्म्यमूलखमिति ||नहिप्रकाशशीतापनयनशक्तिमतःसौरतेजसः शीतापनयन शक्तिमात्रेणशीतालूपयोगितानदृष्टा । एवमनभ्युपगमेच 'पां ड्यायमंसार्पितलंबहारःकृप्तांगरागोहरिचंदनेन॥आ भातिबा लातपरक्तसानुःसनिर्झरोगारइवाद्रिराजः' इत्याद्युपमापिन निर्वहेत्।नह्यत्राद्रिराजपांड्ययोरुपमानोपमेययोरनुगतःसा धारंणधर्मोनिर्दिष्टः । एकत्रबालातपनिझरावन्यत्रहरिचंदन हारावितिधर्मभेदात्। तस्मात्तत्रातपहरिचंदनयोर्निर्झरहारयो श्वसदृशयोरभेदांशोपजीवनमेवगतिः। 'पिनष्टीवतरंगायैःस मुद्रःफेनचंदन।तदादायकरैरिंदुर्लिपतीवदिगंगनाः'इत्यत्रोत्प्रे क्षयोःकालभेदेपिसमप्राधान्यं । अन्योन्यनिरपेक्षवाक्यद्वयो पात्तत्वात्। तदादायेतिफेनचंदनरूपकमात्रोपजीवनेनपूर्वो स्प्रे क्षा नपेक्षणात् । नचैवंलिंपतीवतमोंगानीतिवदुत्प्रेक्षादयस्य संसृष्टिरेवेयमितिवाच्यं । लौकिकसिद्धपेषणलेपनपौर्वापर्य छायानुकारिणोत्प्रेक्षाद्वयपौर्वापर्येणचारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात् । तस्माद्दर्शादिवदेकफलसाधनतयासमप्रधा नमिदमुत्प्रेक्षादयं । एवंसमप्रधानसंकरोपिव्याख्यातः ॥ननुभेदाभेदरूपांशद्वयोपेतायाउपमायाभेदांशस्यानुपयोगात्कथंतस्याउत्प्रेक्षागुपयो गि खमिसाशंक्यपरिहरति । नहीति। प्रकाशश्चशीतापनयनंचेतिद्वंद्वः । शीतालुःशीतातः शीतोष्णतृप्पेभ्यस्तदसहचइतिवालुः । उक्तसिद्धांतस्यनियुक्तिकवेनाश्रद्धेयखमाशंक मानंमसाह एवमिति । पांड्यामिति । पांड्यनामाऽयंनृपोऽद्रिराजइवाभाति।कथंभूतः अंसयोर्पितोलंबोहारोयेनसः । तथाहरिचंदनेनरक्तचंदनेनकृप्तः। कृतोंगरागोनुलेपनं येनतथाभूतः। अद्रिराजाकीहक् बालातपेनरक्तानिसानूनिप्रस्थानियस्यसः। तथानि झरस्योद्गारेणोद्गमेनसहितः। पिनष्टीति।व्याख्यातंप्राक । पौर्वापर्येणेति। तथाचचमत्का रप्रयोजकपौर्वापर्यघटकलेनभेदानवभासात्संसृष्टिवलक्षण्यमितिभावः । दर्शादिवदर्श पौर्णमासादिवत् । अयंचभिन्नकालीनयोरपिसमप्राधान्येदृष्टांतः। फलंतत्रस्वर्गः।प्रकृतेतु चमत्कृतिविशेषः ॥

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202