Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
१७२
__कुवलयानंदः .
नैवोचितोयमितितंताडयामासमालया ॥ अत्रनैवोचितइ तिकाकुस्वरविकारेणोचितएवेत्यर्थातरकल्पनं ॥ १५८ ॥
वक्रोक्तिरिति । काकु नेर्विकारः। अपरार्थस्याभिप्रेतादर्थादर्थीतरस्य । नंदीहर स्यगणविशेषः । दारुणाङ्रेसभिप्रेतंकाष्ठेनेतिकल्पनं विकृतखंचकस्यचिद्वर्णस्यावा पोद्वापाभ्यां । भवित्रीति । सीतापतिरावणोक्तिःपादत्रयं चतुर्थस्तंप्रतिसीतायाः । तेतवपतिःसरामोयुधिसंग्रामेपुरतोऽग्रतोनस्थातास्थास्यतीयर्थः। अतिशयेनलघुर्लघिष्ठ स्तत्संबोधनम् । इदंपादत्रयं षष्ठाक्षरात्पराणांसप्तमानांत्रिनवीतिवर्णानांविलोपोयत्र तादृशंपुनःपठेयर्थः । शब्दश्लेषेति । शब्दस्यपरिवृत्त्यसहखादितिभावः। भिक्षेति । जलनिधिश्चहिमांश्चतत्कन्ययोर्लक्ष्मीपार्वयोः क्रमेणइत्थंलीलयासंलापोमिथोभाष गंनोस्मान्त्रायतामियन्वयः । इत्थंकीहक्तदाह भिक्षार्थीति । हरमभिप्रेसलक्ष्म्या वाक्यं बलेयस्यमखेयज्ञेइतिवामनाभिप्रायंपार्वसाः । भद्रेशोभनेतांडवंनिसमद्यक वर्त्ततइतिलक्ष्मीप्रश्नस्योत्तरंदावनस्यांतेमध्येइतिश्रीकृष्णाभिप्रायं । मृगशिशुर्महादेवे नकरेधृतः । परशुमृगवराभीतिहस्तंप्रसन्नमितिध्यानश्रवणात् । इदं लक्ष्म्यावाक्यं नैवे तिपार्वसाः। मृगःपशौकुरंगेचेतिविश्वः। कच्चिदितिप्रश्ने । जठरोजीर्णः वृषपतिवृष श्रेष्ठइतिहरवृषभाभिप्रायलक्ष्मीवाक्यं गोपोगवांपालकइतिकृष्णाभिमायमुत्तरमिति । अत्रभिक्षादिपदानांपरिवृत्तिसहखादर्थश्लेषमूलखं । असमालोच्येति । अविचारेसर्थः मालयापुष्पमालया ॥ १५८ ॥ इसलंकारचंद्रिकायांवक्रोक्तिः ॥
स्वभावाोक्तःस्वभावस्यजात्यादिस्थस्यवर्णनं ॥
कुरंगरुत्तरंगाक्षःस्तब्धकर्णैरुदीक्ष्यते ॥ १५९ ॥ यथावा॥तौसम्मुखप्रचलितौसविधेगुरूणांमार्गप्रदानरभसस्ख लितावधानौ ॥ पाश्र्वोपसर्पणमुभावपिभिन्नदिक्कंकत्वामुहु र्मुहुरुपासरतांसलजम् ॥१५९॥ स्वभावोक्तिरितिलक्ष्यनिर्देशः । जात्यादिस्थस्यजात्यादिसंबंधिनः । आदिप देनक्रियादिपरिग्रहः । उत्तरंगाणितरंगायमाणान्यक्षीणियेषांतैः । ताविति । तौ प्रक्रांतीवधूवरौगुरूणांसमीपेअन्योन्याभिमुखंप्रचलितौ परस्परस्यमार्गप्रदानेयोरभसो वेगस्तेनस्खलितंभ्रष्टमवधानंसावधानखययोस्तादृशावुभावपिभिन्नदिक्कवामदक्षिणरूप दिसंबंधिपरस्परपार्श्वभागोपसर्पणंमुहुर्मुहुःकृत्वासलज्जंयथास्यात्तथोपसरतां उपसर्प णंचक्रतुरित्यर्थः । पूर्वोदाहरणेकुरंगजातिस्वभाववर्णनमत्रसलज्जक्रियास्वभाववर्ण नमितिभेदः ॥ १२९ ॥ इतिस्वभावोक्तिः ॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202