Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 184
________________ १८० कुवलयानंदः स्वत्प्रसर्थीति । हेवीरसंत्रासतो भयाद्वने सत्वरं गच्छतीस्तव प्रसार्थिनः शत्रवोवसुंधरेशा भूपास्तेषांतरुणीर्विलुंठितुंयाताः किराताभिल्लाः तासांतरुणीनामुत्तरलैरतिचपलैःस्त नैरतितरामतिशयेनलोलैश्चंचलैरपां गैर्नेत्रप्रतैिश्च तै स्तिमिताः स्तब्धाप्रोद्गतरोमांचा विस्मृ तउपक्रमोलुंठनरूपोयैस्तादृशास्तिष्ठतीत्यन्वयः । अत्रशृंगारस्याननुरक्तराजवनिता विषयत्वादनौचिसेनप्रवृत्तिरियाभासरूपत्वं । खयीति । अजनिष्ट अभूद्युधिसंग्रामे । तद्वि षयेति । प्रभुविषयाद्विषद्गणस्ययार तिस्तद्रूपइत्यर्थः । अत्रशत्रुविषयकत्वरूपानौचिसेन प्रवर्तितत्वाद्भावस्याभासत्वं । पश्यामइति । नायकस्यस्व मित्रमतिनायिका वृत्तांतोक्तिः । मयितूष्णींभूते किमियं प्रपद्यते कुरुतेतत्पश्याम इसभिप्रायेणमयास्थैर्यमौनरूपमालंबितमं गीकृतं । पश्यामइति बहुवचनंसखी समानाभिप्रायं । एवंतयाप्ययंखलुशठोमांकिमिति नालपतिभाषतइतिको आश्रितः । इत्यन्योन्यंपरस्परं विलक्ष्यालक्ष्यरहिताया दृष्टिस्त त्रचतुरेसव्याजंनिमित्तांतर व्याजसहितम् ॥ भावोदयोयथा ॥ तदद्यविश्रम्यदयालुरेरोधिमेदिनंनिनीषामि भवद्विलोकिनी || अदर्शि पादेन विलिख्यपत्रिणा तवैव रूपेण समःसमत्प्रियः॥ अत्रनलंप्रतिदमयंत्या औत्सुक्यरूपभावस्ये दयःशृंगाररसस्यांगं । भावसंधिर्यथा ॥ एकाभूत्कुसुमायुधे बुधिरिवप्रव्यक्तपुंरवावलीजेतुमंगलपालिकेव पुलकैरन्याकपो लस्थली ॥ लोलाक्षीक्षणमात्रभाविविरह क्लेशासहांपश्यतो द्रागाकर्णयतश्ववीरभवतः प्रौढाहवाडंबरं ॥ अत्ररमणीप्रेमरणौ त्सुक्ययोः संधिः प्रभुविषयभावस्यांगम् ॥ तदिति । एधिभव । निनीषा मिनेतुमिच्छामि । यतस्तवैव रूपेण समः समत्प्रियोनलः प त्रिणाहंसेनपादेनविलिख्य अदर्शिदर्शितः । एकेति । हेवीरक्षणमात्रेणयुद्धमस्थानाद्भा वयोविरहक्लेशस्तदसहिष्णुंलो लाक्षींद यिताम्पश्यतस्तथा प्रौढसंग्रामाडम्बरमाकर्णयत श्वभवतः एकाकपोलस्थली द्राक् शीघ्रं पुलकैः कुसुमायुधस्यमदनस्येषुधिस्तरुणी मिवमव्य क्तापुंखावली शरपुंखपंक्तिर्यत्रतथाभूताऽभूत् । अन्याद्वितीयाजेतुर्जयशीलस्य मंगलपा लिका मंगलरूपापालिकायाकुशकाशादिनिमिताउभयपार्श्वस्थस्तंभवृक्षादिषुबद्धामार्ग पालीतिप्रसिद्धातद्वदभूदिखर्थः । अत्रप्रेमपदोक्तायारतेर परिपुष्टखाद्भाव रूपसंबोध्यं ॥ - भावशवलंयथा ॥ क्वाकार्यशशलक्ष्मणः क्वच कुलं भूयो पिदृश्ये तसादोषाणां प्रशमायनः श्रुतमहोकोपेपिकांतंमुखं ॥ किंवक्ष्यं

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202