Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 187
________________ चंद्रिकासमेतः १८३ सुंदरं महीपतिर्वेकटपतिसंज्ञंवेग्रीत्याद्यन्वयः । दानवारिर्विष्णुः शैलराजंहरं धैर्यशा लिनंमदनशा सकत्वात् । प्रत्यक्षरूपमिति । सादृश्यविशिष्टपिंड प्रत्यक्षस्यापिफलायोगव्य वछिन्नत्वेन करणत्त्रादितिभावः । फलेन उपमितिरूपेण । इत्युपमानं ॥ - शब्दप्रमाणंयथा ॥ विवृण्वतादोषमपिच्युतात्मनात्वयैक मी प्रतिसाधुभाषितं ॥ यमामनंत्यात्मभुवोपि कारणं कथं सलक्ष्यप्रभवो भविष्यति । अत्रशिवः परमेष्ठिनापिकारणाम त्यत्रश्रुतिरूपशब्द प्रमाणमुपन्यस्तं ॥ एवंस्मृतिपुराणागमलौ किकवाक्यरूपाण्यपिशब्दप्रमाणात्युदाहरणीयनि ॥ तत्रस्मृ तिर्यथा ॥ बलात्कुरुत पापानि संतुतान्यकृतानिवः ॥ सर्वान्बल कृतानर्थानकतान्मनुरब्रवीत् ॥ पूर्वश्रुतिरभिमतार्थेप्रमाणत्वे नोपन्यस्ता । इहतुस्मृतिरनभिमतार्थेतदूषणपरेणप्रमाणत यानीतेतिभेदः । आचारात्मतुष्टयोरपिमीमांसकोक्तधर्मप्रमा योर्वेदशब्दानुमापकतयाशब्दप्रमाणएवतिभीवः ॥ - विवृण्वतेति । कुमारसंभवे बटुवेषंह रंग तिपार्वत्याइयमुक्तिः । वरदोषंप्रकाशयतापि स्खलितांतःकरणेनखयाईशंमहादेवंप्रतिएकमलक्ष्यजन्मसंसाधूक्तं । यतोयमीशमात्मभु वोब्रह्मणोपकारण मामनंतिवेदाः । सकथंलक्ष्यः प्रभव उत्पतिस्थानंयस्य तादृग्भवि ष्यतीत्यन्वयः । विवक्षतेतिकचित्पाठोवकुमिछतेतितदर्थः । बलादिति । नास्तिको तिरियं । हेजनाः पापानिबलात्कुरुततानिचपापानिवो युष्माकमकृतान्येव भवंतु । य तो बलात्कारेणकृतान्सर्वानर्थान्मनुरकृतानब्रवीदिसन्वयः । तद्दूषण परेण सर्वाभिमता र्थदूषणपरेण । आत्मनस्तुष्टिः प्रीतिर्वैकल्पिकेविषये गर्भाष्टमेऽष्टमेवान्देब्राह्मणस्योपनय नमिसादाप्रमाणमित्युंक्तं ॥ - तत्राचार प्रमाणंयथा ॥ महाजनाचापरंपरेद्दशस्विनामनामा ददतेनसाधवः ॥ अतोभिधातुंनतदुत्सहेपुनर्जनः किलाचारमु चंविगायति ॥ आत्मतुष्टिप्रमाणंयथा ॥ असंशयंक्षत्र परिग्रह क्षमायदार्यमस्यामभिलाषिमेमनः ॥ संतांहिसंदेहपदेषुवस्तु षुप्रमाणमंतःकरणस्यवृत्तयः ॥ अत्रदुष्यंतेनात्मतुष्ट्या शकुंत लापरिग्रहस्यधर्म्यत्वं श्रुत्यनुमतमनुमीयते । एवं श्रुतिलिंगादि

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202